सामग्री पर जाएँ

नानारूपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नानारूपः, त्रि, (नाना रूपाणि यस्य ।) अनेक- प्रकारः । तत्पर्य्याय । विविधः २ बहुविधः ३ पृथग्विधः ४ । इत्यमरः । ३ । १ । ९३ ॥ (यथा, मनुः । ९ । ३८ । “भूमावप्येककेदारे कालोप्तानि कृषीबलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥” नाना रूपाणि इति विग्रहे । वहुविधरूपे क्ली । यथा, गोः रामायणे । ३ । १ । २१ । “नानारूपैर्विरूपास्ते रूक्षैरणुभदर्शनाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=नानारूपः&oldid=143976" इत्यस्माद् प्रतिप्राप्तम्