सामग्री पर जाएँ

नानावर्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नानावर्णः, पुं, (नानाविधो वर्णः ।) बहुविध- शुक्लादिवर्णः । इति भरतः ॥ तत्पर्य्यायः । चित्रम् २ किर्म्मीरः ३ कल्माषः ४ शवलः ५ एतः ६ कर्व्वुरः ७ । इत्यमरः । १ । ५ । १७ ॥ विचि- त्रम् ८ शारङ्गम् ९ कम्बरः १० कर्म्मारः ११ चित्रलः १२ । इति शब्दरत्नावली ॥ ब्राह्मण- क्षत्त्रियादिश्च ॥ (नानाविधो वर्णो यस्येति । विचित्रवर्णयुक्ते, त्रि । यथा, सुश्रुते । १ । ३८ । “नानावर्णा लघ्वश्मवती प्रविरलाल्पपाण्डवृक्ष- प्ररोहाग्निगुणभूयिष्ठा ॥”)

"https://sa.wiktionary.org/w/index.php?title=नानावर्णः&oldid=143978" इत्यस्माद् प्रतिप्राप्तम्