सामग्री पर जाएँ

नान्दीमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नान्दीमुखः, पुं, (नान्द्यै वृद्ध्यर्थं मुखं यस्य ।) कूपादिमुखबन्धनम् । इति हेमचन्द्रः । ४ । १५८ ॥ वृद्धिश्राद्धभुक् पितृगणः । यथा, -- “नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥” इति विष्णुपुराणम् ॥ स च पित्रादित्रिकं मातामहादित्रिकञ्च । इति गोभिलसूत्रम् ॥ (नान्द्या वृद्धेर्मुखम् ।) वृद्धिश्राद्धे, क्ली । यथा, -- “नान्दीमुखे विवाहे च प्रपितामहपूर्ब्बकम् । अत्र नान्दीमुखपदस्य श्राद्धपरत्वे इत्युद्वाह- तत्त्वलेखनादन्यत्र श्राद्धपरत्वम् ।” तदितिकर्त्त- व्यता यथा । “तत्र गोभिलः । अथाभ्युदायक- श्राद्धे युग्मानासादयेत् प्रदक्षिणमुपचारः ऋजवो दर्भाः यवैस्तिलार्थः सम्पन्नमिति तृप्तिप्रश्नः दधिवदराक्षताज्यमिश्राः पिण्डाः नान्दीमुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दी- मुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तामिति न स्वधाञ्च प्रयुञ्जीतेति ॥ अपि च । स्वधयेतिपदस्थाने पुष्ट्याशब्दं वदेदिह । पितॄनितिपदात् पूर्ब्बं वदेन्नान्दीमुखानिति ॥ कर्म्मादिषु च सर्व्वेषु मातरः स्वगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ प्रतिमासु च शुभ्रासु लिखिता वा पटादिषु । अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥ कुड्यलग्नां वसोर्धारां सप्तवारान् घृतेन तु । कारयेत् पञ्च वारान् वा नातिनीचां न चोच्छ्रि- ताम् ॥ आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥ वशिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरा- मिषः । अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ॥ प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा । उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना ॥ निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् । सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् ॥ पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् । गोत्रनामभिरामत्र्य पितॄनर्घ्यं प्रदापयेत् ॥ नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते । पात्राणां पूरणादीनि दैवे नैव तु कारयेत् ॥ ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपविचकान् । कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते ॥ मधु मध्विति यस्तत्र त्रिर्ज्जपोऽशितुमिच्छताम् । गायत्त्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्ज्जितः ॥ न चाश्नत्सु जपेदत्र कदाचित् पितृसंहिताम् । अन्य एव जपः कार्य्यः सोमसामादिकः शुभः ॥ यस्तत्र प्रकरोन्नस्य तिलवद्यववत्तथा । उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः ॥ सम्पन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते । सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् ॥ प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ब्बवत् । अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः ॥ द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः । मातामहप्रभृतींस्तु एतेषामेव वामतः ॥ सर्व्वस्मादन्नमुद्धुत्य व्यञ्जनैरुपसिच्य च । संयोज्य यवकर्कन्धुदधिभिः प्राङ्मुखस्ततः ॥ अवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान् । तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् ॥ उत्तरोत्तरदानेन पित्तानामुत्तरोत्तरम् । भवेदधश्चाचरणादधोऽधः श्राद्धकर्म्मसु ॥ तस्मात् श्राद्धेषु सर्व्वेषु वृद्धिमत्स्वितरेषु च । मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्व्वपेत् ॥ गन्धादीन्निक्षिपेत्तूष्णीं तत आचामयेत् द्बिजान् ॥” “अथाग्रभूमिमासिञ्चेत् सु सुप्रोक्षितमस्त्विति । शिवा आपः सन्त्विति च युग्मानेवोदकेन च । सौमनस्यमस्त्विति च पुष्पादानमनन्तरम् ॥ अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतानपि दापयेत् । अक्षय्योदकदानन्तु अर्घ्यदानघदिष्यते ॥ षष्ठ्यैव नित्यं तत् कुर्य्यान्न चतुर्थ्या कदाचन । प्रार्थनासु प्रतिप्रोक्ते सर्व्वास्वेव द्विजोत्तमैः ॥ पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् । युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा ॥ कृत्वा धूर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥” * ॥ तन्निमित्तानि यथा, विष्णुपुराणे । “कन्यापुत्त्रविवाहे च प्रवेशे नववेश्मनः । नामकर्म्मणि बालानां चूडाकर्म्मादिके तथा ॥ सीमन्तोन्नयने चैव पुत्त्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥” मत्स्यपुराणे । “अन्नप्राशे च सीमन्ते पुत्त्रोत्पत्तिनिमित्तके । पुंसवने निषेके च नववेश्मप्रवेशने ॥ देववृक्षजलादीनां प्रतिष्ठायां विशेषतः । तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम् ॥” कूर्म्मपुराणे । “तीर्थयात्रासमारम्भे तीर्थप्रत्यागमेषु च । वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम् ॥” इति श्राद्धतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नान्दीमुख¦ न॰ नान्द्या वृद्धेर्मुखम्।

१ वृद्धिश्राद्धे श्राद्धभेदेनान्द्यै मुखं यस्य।

२ पित्रादौ

३ मात्रादौ स्त्री ङीष्। जीवत्पित्रादित्रिकस्य

४ वृद्धप्रपितामहादौ च

६ त॰।

५ समृद्धेः साधने विवाहादौ
“नान्दीमुखे विवाहे च” नान्दीशब्ददर्शितवाक्ये स॰ त॰ लिखनं दृश्यम्। अथनान्दीश्राद्धाधिकारस्वरूपादि निर्ण॰ सि॰ दर्शितं यथाअथ वृद्धिश्राद्धम् तन्निमित्तं पृथ्वीचन्द्रोदये ब्राह्मे
“जन्मन्यथोपनयने विवाहे पुत्रकन्ययोः। पितॄन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्वकम्। देवव्रतेषु चाधानयज्ञ-पुंसवनेषु च। नवान्नभोजने स्नाने ऊढायाः प्रथमार्तवे। देवारामतडागादिप्रतिष्ठासूत्सवेषु च। राजाभिषेकेबालान्नभोजने वृद्धिसंज्ञकान्। वनस्थाद्याश्रमं गच्छन्पूर्वेद्युः सद्य एव वा। पितॄन् पूर्वोक्तविधिना तर्पयेत्कर्मसिद्धये” विष्णुपुराणे
“यज्ञोद्वाहप्रतिष्ठासु मेखला-वन्धमोक्षयोः। पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाच-रेत्” तत्रैव
“नामकर्मणि बालानां चूडाकर्मादिकेतथा” इत्युक्तेर्निष्क्रमान्नप्राशनयोर्न श्राद्धमिति मैथिलाःतन्न पूर्वोक्तबिरोधात् नानिष्ट्वेति विरोधात्
“सुतोत्पत्तौतथा श्राद्धे अन्नप्राशनिके तथा” इति राजमार्त्तण्डाच्च[Page4033-a+ 38] बहुह्वृचकारिकायाम्
“आद्याभ्युदयिकं श्राद्धं वृद्धिपूर्त्तेषुकर्मसु। पुंसःसवनसीमन्तलोकोपनयनेष्विह। विवाहेचानलाधेयप्रभृतिश्रौतकर्मणि। इदं श्राद्धं प्रकुर्वन्तिद्विजा वृद्धिनिमित्तकम्। अन्यैः षोडशसंस्कारश्रा-वण्यादिष्वपीष्यते। वाप्याद्युद्यापनादौ तु कुर्युःपूर्त्तनिमित्तकम्”। वोपदेवकालदर्शौ
“सीमन्तव्रतचौल-नामकरणान्नप्राशनोपायनस्नानाधानविवाहयज्ञतनयोत्प-त्तिप्रतिष्ठासु च। पुंसूत्यावसथप्रवेशनसुताद्यास्याव-लोकाश्रमस्वीकारक्षितिपाभिषेकदयिताद्यर्त्तौ च नान्दी-मुखम्” यत्तु कामधेनौ
“जलाशयप्रतिष्ठायां वृषोत्स-र्गादिकर्मसु। वत्सराभ्यन्तरे पित्रोर्वृषस्योत्सर्गकर्मणि। वृद्धिश्राद्धं न कुर्वीत तदन्यत्र समाचरेत्” इति तत्रजलाशये वृद्धिश्राद्धस्य निषेधो न तु कर्माङ्गस्येतिकेचित्। अन्ये त्वस्य निर्मूलतामाहुः। श्राद्धकौमुद्यांनिर्णयामृते च मात्स्ये
“अन्नप्राशे च सीमन्ते पुत्रो-त्पत्तिनिमित्तके। पुंसवे च निषेके च नववेश्म प्रवे-शने। देववृक्षजलादीनां प्रतिष्ठायां विशेषतः। तीर्थ-यात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्तितम्”। इदं चावश्यकं
“वृद्धौ न तर्पिता ये वै पितरो गृहमेधिभिः। तद्धीन-मफलं ज्ञेयमासुरो विधिरेव सः” इति शातातपोक्तेः। अत्र श्राद्धत्रयं पराशर आह
“मातृश्राद्धं तु पूर्वं स्यात्पितॄणां तदनन्तरम्। ततो मातामहानां च वृद्धौश्राद्धत्रयं स्मृतम्”। तत्कालमाह पृथ्वीचन्द्रोदये गार्ग्यः
“मातृश्राद्धं तु पूर्वेद्युः कर्माहनि तु पैतृकम्। माता-महं चोत्तरेद्युर्वृद्धौ श्राद्धत्रयं स्मृतम्”। अत्राप्यशक्तौ सएव
“पृथक् दिनेष्वशक्तश्चेदेकस्मिन् पूर्ववासरे। श्राद्धत्रयंप्रकुर्वीत वैश्वदेवं तु तान्त्रिकमिति” वृद्धमनुरपि
“अलाभेभिन्नकालानां नान्दीश्राद्धत्रयं बुधः। पूर्वेद्युर्वे प्रकुर्वीतपूर्वाह्णे मातृपूर्वकम्”। अत्र
“महत्सु पूर्वेद्युस्तदहर-ल्पेष्विति” गृह्यपरिशिष्टाद्यवस्था ज्ञेया। तच्च प्रातरेव-
“पार्वणं चापराह्णे तु प्रातर्वृद्धिंनिमित्तकमिति” शातातपोक्तेः अत्र प्रातः शब्दः सार्द्धप्रहरषरः
“प्रहरोऽप्यर्ध-संयुक्तः प्रातरित्यभिधीयतै” इति गार्ग्योक्तेरिति पृथ्वी-चन्द्रः। इदं च पुत्रजन्मातिरिक्तविषयम्। तदाहात्रिः
“पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम्। पुत्रजन्मनिकुर्वीत श्राद्धं तात्कालिकं बुधः” इति एतदनियतनिमित्तपरम्
“नियतेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम्। तेपामतियतत्वे तु तदानन्तर्य्यमिष्यंते” इति लौगाक्षि[Page4033-b+ 38] स्मृतेः। आधानाङ्गं नान्दीश्राद्धं त्वपराह्णएव
“आम-श्राद्धं तु पूर्वाह्णे सिद्धान्नेन तु मध्यतः। पार्वणंवाऽपराह्णे तु वृद्धिश्राद्धं तथाग्निकम्” इति निर्णयामृतेगालवोक्तेः
“नान्दीमुखाह्वयं प्रातराव्दिकं त्वपराह्णतः” इति विष्णूक्तेश्च। इदं च मातृपितृमातामहादिक्रमेणनवदैवत्यं कार्य्यम्। तत्र मातामहाः सपत्नीकाः
“वृद्ध-प्रमातामहप्रमातामहमातामहानां सपत्नीकानामिति” पृथ्वीचन्द्रोदये गारुडे गठ्यरूपेण पाठात्। हेमाद्रौ शङ्खः
“नान्दीमुखे सत्यवसू संकीर्त्यौ वैश्वदेविके” वृद्धपराशरः
“नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणकुशासनम्। पितृभ्य-स्तन्मुखेभ्यश्च प्रदक्षिणमिति स्मृतिः” यत्तु वृद्धवसिष्ठः
“नान्दीमुखे विवाहे च प्रपितामहपूर्वकम्। नाम-संकीर्त्तयेद्विद्वानन्यत्र पितृपूर्वकम्”। यच्च स्मृत्यर्थसारे
“वृद्धसुरव्यास्तु पितरो वृद्धिश्राद्धेषु भुञ्जते”। इति यच्चगारुडे व्युत्क्रमप्रतिपादनं तच्च शाखान्तरविषयम्।
“पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः” इति बह्वृचपरि-शिष्टे कात्यायनेन चानुलोम्याम्नानात् पृथ्वीचन्द्रोदये-ऽप्येवम्। यत्तु केचित् वृद्धिपदं पित्रादिषु प्रयुञ्जते तन्न
“अनस्मद्वृद्धशब्दानामरूपाणामगोत्रिणाम्। अनाम्ना-मतिलाद्यैश्च नान्दीश्चाद्धं तु सत्यवदिति” पृथ्वीचन्द्रो-दये संग्रहोक्तेः न च निषेधादेव विधिः कल्प्यत इतिवाच्यं प्रोष्ठपदीश्राद्धे प्रपितामहात् परेषां वृद्धपित्रादीनांदेवतात्वान्नान्दीश्राद्धत्वसाभ्येनेहापि तत्प्राप्तौ निषेधात्गोत्रनामादिनिषेधस्तु
“शुभार्थी प्रथमान्तेन वृद्धौ संकल्प-माचरेत्” इत्युपक्रम्यानस्मद्वृद्धशब्दानामित्युक्तेः संकल्प-श्रद्धपरः सपिण्डके तु सर्वं भवतीति प्रयोगपारिजातः।
“गोत्रनामभिरामन्त्र्य पितृभ्योऽर्घ्यं प्रदापयेदिति” छन्दो-गपरिशिष्टे तद्विधानात् यत्तु ब्राह्मे
“पिता पितामह-श्चैव तथैव प्रपितामहः। त्रयो ह्यश्रुमुखा ह्येते पितरःपरिकीर्त्तिताः। तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखैघिताः। ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते” इति यच्च मार्कण्डेयपुराणे
“ये प्रपितामहादूर्द्धं तेतु नान्दीसुखाः स्मृताः” इति तज्जीवत्पित्रादित्रिक-कर्तृकवृद्धिश्राद्धविषयम्। तेन तस्येदमावश्यकम्। यत्तुविष्णुः
“पितरि पितामहे प्रपितामहे च जीवति नैवकुर्य्यादिति” तद्दर्शादिविषयमिति कल्पतरुः। मदनपारि-जातोऽप्येवम्। हेमाद्रिस्तु
“नान्दीमुखानां श्राद्धं तुकन्याराशिगते रवौ। पौर्णमास्यां तु कर्त्तव्यं वराह-[Page4034-a+ 38] वचनं यथेति” प्रोष्ठपदीश्राद्धैकवाक्यत्वात् तत्रैव पूर्वेषां देव-तात्वमित्याह। अत्र सत्यवसू विश्वे देवावित्युक्तं प्राग्वत्। यत्तु शातातपः
“मातुः श्राद्धं तु युग्मैः स्याददैवंप्राङ्मुखैः पृथगिति” तद्भिन्नप्रयोगमातृशाद्धपरम्। यच्च मार्कण्डेयपुराणे
“विश्वदेवविहीनं तु केचिदिच्छन्तिमानवाः” इति तद्भिन्नप्रयोगमातृश्राद्धे विश्वदेवविक-ल्पार्थं प्रयोगैक्ये तु देवनियम इति हेमाद्रिः। एतच्चमातृपूजापूर्वकं कार्यम्।
“अकृत्वा मातृयागं तु यःश्रद्धं परिवेषयेत्। तस्य क्रोधतमाविष्टा हिंसामिच्छन्तिमातरः” इति शातातपोक्तेः कौर्मेऽपि
“पुष्पैर्धूपैःसनैवेद्यैर्गन्धाद्यैर्मूषणैरपि। पूजयित्वा मातृगणं कुर्य्या-च्छ्राद्धत्रयं बुधः” इति छन्दोगपरिशिष्टे
“कर्मादिषु तुसर्वेषु मातरः सगणाधिपाः। पूजनीयाः प्रयत्नेन पूजिताःपूजयन्ति ताः” प्रतिमासु च शुद्धासु लिखिता वा पटादिषुअपि वाऽक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः। कुड्यलम्नांवसोर्धारां सप्तधारां घृतेन तु। कारयेत् पञ्चधारां वानातिनीचां न चोच्छ्रिताम्। आयुष्याणि च शान्त्यर्थंजत्वा तत्र समाहितः। षड्भ्यः पितृभ्यस्तदनु श्राद्ध-दानमुपक्रमेत्”। अत्र सर्वेष्विति ग्रहणात् ग्रहयज्ञतद्विकारेष्वपि नित्यं श्राद्धम्।
“नानिष्ट्वा तु पितॄन्श्राद्धे कर्म किञ्चित् समाचरेदिति” शातातपोक्तेः। इयंच वसोर्धारा तच्छाखीयानां नियतान्येषां त्वनियता। बह्वल्पं वा स्वगृह्योक्तमित्युक्तेः करणे त्वभ्युदयः
“यन्ना-म्रातं स्वशाखायाम्” इत्युक्तेः आयुष्याणि
“आनी भद्राइत्यादीनि। षड्भ्य इति मात्रादित्रिकोपलक्षणमितिपृथ्वीचन्द्रोदयः। छन्दोगानां षड्दैवत्यमन्वेषां नवदैवत्य-मित्याशार्कः। मम तु मतं कोकिलमतानुसारिणां मातृ-मातामहीप्रमातामही इति मात्रा सहैव मातामहश्राद्ध-करणात् तद्विषयमिदं षड्भ्य इति। मातरस्तु तत्रैवोक्ताः
“गौरी पद्मा शची मेघा सावित्री विजया जया। देव-सेना स्वधा स्वाहा मातरो लोकमातरः। ”( चन्द्रिकायां चतुर्विंशतिमते त्वन्या उक्ताः
“तिस्रःपूज्याः पितुः पक्षे तिस्नो मातामहे तथा। इत्येतामातरः प्रोक्ताः पितुर्मातुः स्वसाऽष्टमी” आसां जीवनेप्रत्यक्षपूजनम्। मृतानां त्वक्षतपुञ्जेष्विति हेमाद्रिः
“ब्रह्मण्याद्यास्तथा सप्त दुर्गाक्षेत्रगणाधिपान्। वृड्यादौपूजयित्वा तु पश्चान्नान्दीमुखान् पितृन्। मातृपूर्वान्पितृन् पूज्य ततो मातामहानपि। मातामहीस्ततः[Page4034-b+ 38] केचिद्युग्मा भोज्याद्विजातयः” इति। अत्र द्वादशदैवतस्यदेशाचाराद्व्यवस्था। ब्रह्मण्याद्यान्तु
“ब्राह्मी माहेश्वरीचैव कौमारी वैष्णवी तथा। वाराही च तथेन्द्राणीचामुण्डा सप्त मातरः” इत्यपरार्के उक्ताः। अत्र चौला-दीनां यौगपद्ये तन्त्रतोक्ता छन्दोगपरिशिष्टे
“गणशःक्रियमाणानां मातृभ्यः पूजनं सकृत्। सकृदेव भवेच्छ्राद्ध-मादौ न पृथगादिषु” मातृभ्य इति षष्ट्यर्थे चतुर्थी। गणशः एकानेकपुत्राणां संस्कारेष्वेकदिने एकदेशकाल-कर्त्रैक्यादित्यर्थः। तथा
“असकृद्यानि कर्माणि क्रियेरन्कर्मकारिभिः। प्रतिप्रयोगं नैव स्युर्मातरः सगणाधिपाः” कर्मावृत्तावपि कुत्र श्राद्धं कार्यं क्वच नेत्युक्तं तत्रैव
“आधाने होमयोश्चैव वैश्वदेवे तथैव च। बलिकर्मणिदर्शे च पूर्णमासे तथैव च। नवयज्ञे च यज्ञाज्ञा वद-न्त्येवं मनीषिणः। एकमेव भवेच्छ्राद्धमेतेषु न पृथकपृथक्” एतेषु प्रतिप्रयोगं नावर्त्तते किन्त्वादौ, एतद्भिन्नसोमयागादौ प्रतिप्रयोगमावर्त्तते एव श्राद्धमित्यर्थः। क्वचिदादावपि निषेधमाह स एव
“नाष्टकासु भवेच्छ्राद्धंन श्राद्धे श्राद्धमिष्यते। न सोष्यन्तीजातकर्मप्रोषितामतक-र्मसु”।
“विवाहादिः कर्मगणीय उक्तो गर्भाधानं शुश्रुमोयस्य चान्ते। विवाहादावेकमेवात्र कुर्य्याच्छ्राद्धं नादौकर्मणः कर्मणः स्यात्”। सोष्यन्त्या आसन्नप्रसवायाः
“सोष्यन्तीमभ्युक्ष्येत्युक्तं कर्म। कात्यायनोक्तस्य श्राद्धस्य पाकस्यप्राधान्यात्तस्य च
“जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्म-णेष्वपीति” निषेधान्न जातकर्मणि नान्दीश्राद्धमित्याशार्कः
“आमान्नेन वा कार्यमित्यपि” तेनैवोक्तम्। गौडास्तुजातकर्मण्येव निषेधः पुत्रजन्मनिमित्तकं तु कार्यमेव
“जन्मव्यथोपनयने” इत्युक्तेः
“नैमित्तिकमथो वक्ष्येश्राद्धमभ्युदयात्मकम्। पुत्रजन्मनि तत्कार्यं जातकर्मसमंनरैरिति” मार्कण्डेयपुराणाच्चेत्याहुः। हारलतायांश्राद्धविवेके चैवम्। एतेन जातकर्मणि कालान्तरे श्राद्ध-निषेधो न पुत्रजन्मदिने इति वाचस्मतिमतं परास्तम्। अत्र निषेककाले इति वचनात् गर्भाधाने न निषेधः
“निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयंपुंसवने श्राद्धं कर्माङ्गं विधिववत्कृतम्” इति पारस्करः। प्रोषितेति
“प्रोष्यैत्य गृहानुपतिष्ठते पुत्रं दृष्ट्वा जपतीति” विहितं कर्म विवाहादिगर्भाधानान्तो यो गृहप्रवेशच-तुर्थीकर्मादिकर्मसमूह उक्तः सूत्रकारेण तत्रापि प्रतिकर्मनेत्यर्थः। अन्येऽपि हलामियोगादयोऽपवादविषयास्वत्रैक[Page4035-a+ 38] ज्ञेवास्ते अप्रचारान्नोच्यन्ते। अत्राधिकारिणः विष्णुपुराणे
“जातस्य जातकर्मादि क्रियाकाण्डमशेषतः। पिता पुत्रस्यकुर्वीत श्रद्धं चाभ्युदयात्मकम्”। अत्र केचित् जीवत्पिवृकसाग्नेरेव वृद्धिश्राद्धेऽधिकारः न तु निरग्नेः
“न जीव-त्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः। येभ्य एव पितादद्यात्तेभ्यः कुर्वीत साग्निकः। पितामहेऽप्येवमेव कु-र्याज्जीवति साग्निकः। साग्निकोऽपि न कुर्वीत जीवतिप्रपितामहे” इति चन्द्रिकायां सुमन्तूक्तेरित्याहुः प्रयो-गपरिजातेऽप्यनाहिताग्निर्न कुर्यादितीदं व्याख्यातम्। तन्न
“अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि। येभ्यएव पिता दद्यात्तानेवोद्दिश्य तर्पयेत्” इति हारी-तोक्तेः सौमन्तवन्तु न वृद्धिश्राद्धपरमित्युक्तं मदनरत्नेआद्धपदं पिण्डपितृयज्ञपरमिति पृथ्वीचन्द्रोदयः। नि-र्णयामृते तु हारीतीयेऽनग्निको नाहिताग्निरमिप्रेतःपूर्ववचने तु साग्निः श्रौताग्निः स्मार्त्ताग्निश्चोच्यते तेनो-भयाग्निहीनस्य नेत्युक्तं तन्न पूर्वोक्तदिशा गतिसम्भवे-ऽनग्निपदस्य स्मार्त्ताग्निपरत्वे मानामावात् वक्ष्यमाणनि-त्यानित्यसंयोगविरोघात्
“पितरो जनकस्येज्या यावद्व्र-तमनाहितम्। समाहितव्रतः पश्चात्स्वान् यजेत पिता-महान्” इति पृय्यीचन्द्रोदये यमवचनविरोधाच्च अप-रार्केऽपि समावर्त्तने ब्रह्मचारी स्वयमेव नान्दीश्राद्धंकृर्यादित्याह अतः पूर्वमेव साधु वोपदेवोऽप्येवमाह। यत्तुमतं जीवत्पितुः पुत्रनामकर्मादौ न वृद्धिश्राद्धम्। हारीतीये जन्मादावित्यादिशब्देन तत्प्राप्तावपि
“उद्वाहेपुत्रजनने पित्रिष्ट्यां सौमिके मखे। तीर्थे व्राह्मण आयातेषडेते जीवतः पितुरिति” मैत्रपरिशिष्टे उद्वाह एवतस्योप{??}हारात् एवं यत्र तु संस्कारादिपदं तदप्युद्वा-हादिपरमेवेति, तन्न उद्वाहपदस्य स्वविवाहपरत्वस्यापिसंभवात् पुत्रविवाहपरत्वे मानाभावात्
“नामकर्भणि वा-लानां चूडाकर्मादिके तथा” इत्यादिमिर्नित्यश्राद्धस्य चौला-द्यङ्गत्वावगतौ नित्यानित्यसंवोगविरोधाच्च अतो जन्मा-दाविति सर्वसंस्कारसंग्रहः तथा च कात्यायंनः
“स्वपितृम्यःपिता दद्यात् सुतसंस्कारकर्मसु। पिण्डानोद्वाहनात्तेषांतस्याभावे तु तत्क्रमात्”। सुतानां चौलादिसंस्कारेषुपिता स्वपितृभ्यः पिण्डान् श्राद्धम्
“पिण्डदोऽंशहरश्चै-छामिति” दर्शनात् ओद्वहनाद्विवाहपर्यन्तं दद्यात् विवा-हश्च प्रथमः
“नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहेवचः। अत उर्द्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्” [Page4035-b+ 38] इति स्मृतेः तस्य पितुरमावे तत्क्रमात्
“असंस्कतास्तुसंस्कार्या भ्रातृमिः पूर्वसंस्कृतौ” इति यः कर्तृक्रमःतेन क्रमेण ज्येष्ठभ्रात्रादिर्दद्यादिति चन्द्रिकादयःहेमाद्रिस्तु
“तस्य पितुरमावे यः पितृव्यमातुलादिः संस्कु-र्यात्स तत्क्रमात् संस्कार्यपितृक्रमाद्दद्यात् न तु स्वपि-तृभ्य इति” व्याचख्यौ। समावर्त्तनस्यापि विवाहप्राचीनसुतसंस्कारत्वात्पितैव नान्दीश्राद्धं कुर्यात् तदमावे ज्ये-ष्ठम्रात्रादि तदभावे स्वयमेव कुर्यात् उपनयनेनकर्माधिकारस्य जातत्वात् एवमाद्यविवाहेऽपीति पृथ्वी-चन्द्रोदयचन्द्रिकादयः मदनरत्नेऽप्येवम्। यदा तु पितरिसन्यस्ते प्रोषिते पतिते वा घर्मार्थं तत्पुत्रमन्यः संस्कु-र्यात्तदा संस्कार्यपितुः पित्रादिभ्यो दद्यात्
“पितरोजन-कस्येज्या यावद्व्रतमनाहितम्। समाहितव्रतः पश्चात्स्वान् यजेत पितामहान्” इति पृथ्वीचन्द्रोदये यमोक्तेः। जीवत्पितृकस्य विशेषमाह कात्यायनः
“वृद्धौ तीर्थे चसन्न्यस्ते ताते च पतिते सति। येभ्यएव पिता दद्या-त्तेभ्यो दद्यात् स्वयं सुतः” इति। यच्च बह्वृचपरिशिष्टेजीवत्पिता सुतसंस्कारेषु नातृमातामहयोः कुर्यात् तस्यांजीवन्त्यां मातामहस्यैवेति” तत्तच्छाखीयानामेवेति दिक्। स्मृतितत्त्वादिगौडग्रन्थेषु जीवन्मातृकः पितामह्यादिभ्योदद्यात्
“जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः” इतिकात्यायनोक्तेः
“जीवे तस्मिन् सुताः कुर्युः पितामह्यां स-हैव तु। तस्यां चैव तु जीवन्त्यां तस्याः श्वश्र्वेति निश्चयः” इति हारीक्तेश्चेत्युक्तम्। तस्मिन् भर्त्तरि। दाक्षिणा-त्यास्तु पूर्वोक्तं सपिण्डीकरणादिविषयम्
“जीवेत्तुयदि वर्गाद्यस्तं वर्गन्तु परित्यजेत्” इति वचनात्तद्वर्गस्यलोप एवेत्याहुः। यत्तु चन्द्रिकायां पारस्करः
“निषेक-काले सोमे च सीमन्तोन्नयगे तथा। ज्ञेयं पुंसवने श्राद्धंकर्माङ्गं वृद्धिवच्च तत्” इति तत्र गर्माघानादौ कर्माङ्गम्जातकर्मादावुक्तन्तु वृद्धिश्राद्धं पृथगेव विधिवत्यवधेयम्। गौडनिबन्धे मात्स्ये
“अन्नप्राशे च सीमन्ते पुत्रोत्पत्ति-निमित्तके। पुंसवे च निषेके च नववेश्मप्रवेशने। बेदव्रतजलादीनां प्रतिष्ठायां तथैव च। तीर्थयात्रावृषो-ह्यर्गे वृद्धिश्राद्धं प्रकीर्त्तितम्” नाविनिषित्तानामङ्गत्वेवृद्धिशब्दस्तद्धर्मातिदेशार्थ इति गौडाः
“अन्थे तु निषे-कादौ कर्माङ्गवृद्धिश्राद्धयोः समुच्चयमाहुः नान्दीश्राद्धे-तूभयानुगता। अस्येतिकर्त्तव्यता पृथ्वीचन्द्रोदये वृद्धप-राशरः
“मालत्याः शतपत्राया मल्लिकाकुब्जयोरपि। [Page4036-a+ 38] केतक्याः पाटलाया वा देया माला न लोहिता” श्राद्धेमालानिषेघस्यायमपवादः। तथा
“सुवेषमूषणैस्तत्र साल-ङ्कारैस्तथा नरैः। कुङ्कुमाद्यनुलिप्त ङ्गैर्भाव्यन्तु ब्राह्मणैःसह। स्त्रियोऽपि स्युस्तथा भूता गीतनृत्यादिहर्षिताः”। हेभाद्रौ ब्रह्माण्डे
“कुशस्थाने च दूर्वाः स्युर्मङ्गलस्यामि-वृद्धये”। कुशा अपि वक्ष्यन्ते। छन्दोगपरिशिष्ठे
“प्रातरा-मन्त्रितान् विप्रान् युग्मानुभयतस्तथा”। उभयतः दैवेपित्र्ये च वैश्वदेवे द्वौ विप्रौ पित्रादीनामेकैकस्य द्वौद्वाविति विंशतिः। त्रिके वा द्वौ द्वावित्यष्टौ विप्राः। अत्रविप्रालाभे स्त्रियोऽपि मोज्या इत्याहाशार्के वृद्धवसिष्ठः
“मातृश्राद्धे तु विप्राणामलामे पूजयेदपि। पतिपुत्रा-न्विताभव्या योषितोऽष्टौ कुलोद्भवाः। मातृत्रिके च-तस्रः मातामहीत्रिके चेत्यष्टौ” इति हेमाद्रिः।
“अत्रपित्र्ये प्राङ्मुखाविप्राः पाद्ये पित्र्ये चतुरस्वं म-ण्डलमिति, जयन्तः” हेमाद्री ब्राह्मे
“विप्रान् प्रदक्षि-णावर्त्तं प्राङ्मुखानुपवेशयेत्”। छन्दोगपरिशिष्टे
“गोत्र-नामभिरामत्र्य पितृभ्योऽर्घ्यं प्रदापयेत्। नात्रापसव्य-करणं न पित्र्यं तीर्थमिष्यते। ज्येष्ठोत्तरकरान् युग्मान्कराग्राग्रपवित्रकान्। कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्रदीयते” पित्रादेर्द्वौ द्वौ विप्रौ तयोर्दक्षिणहस्तौ संयोज्यप्रथमोपवेशितविप्रकरोपरि तन्त्रेण द्वयोरर्घ्यं दद्या-दत्यर्थः। बह्वृचकारिकायां तु
“दत्तार्घ्यादेकदेशः स्या-दर्ष्यदानं प्रतिद्विजम्। आवृत्तिरपि मन्त्रस्य प्रति-ब्राह्मणमिष्यंते। प्रतिद्विजं पृथक्कुर्यान्निवीत्थर्घ्यानुमन्त्र-णम्” इत्युक्तम्
“मधु मध्विति यस्तत्र त्रिर्जपोऽशितुमि-च्छताम्। गायत्र्यनन्तरं स्तोत्रं मधुमन्त्रविवर्जितम्। नचाश्नंस्तु जपेदत्र कदाचित् पितृसूक्तकम्” तथा
“सम्पन्नमिति तृप्ताःस्य प्रश्नस्थाने विधीयते। सुसम्पन्न-मिति प्रोक्ते शेषमन्नं निवेदयेत्। अक्षय्योदकदानञ्चअर्घ्यदानवदिष्यते। षष्ठ्यैव नियतं कुर्य्यान्न चतुर्थ्याकदाचन”। चन्द्रोदये व्राह्मे
“पठेच्छकुनिसूक्तं तु स्वस्तिसूक्तं शुभं तथा। नान्दीमुखान् पितॄन् मक्त्या साञ्ज-लिश्च समाह्वयेत्” तथा
“शाल्यन्नं दधि मध्वक्तं वद-राणि यवांस्तथा। मिश्रीकृत्य तु चतुरः पिण्डान् श्री-फलसन्निभान्। दद्यान्नान्दीमुखेभ्यश्च पितृभ्यो विधि-पूर्वकम्। द्राक्षामलकमूलानि यवांश्च विनियोजयेत्। तान्येव दक्षिणार्थन्तु दद्याद्विप्रेषु सर्वदा”। तत्रैव चतु-र्विशतिमते
“द्वौ द्वौ चाभ्युदये पिण्डावेकैकस्मै विनिः-[Page4036-b+ 38] क्षिपेत्। एकं नाम्ना परं तूष्णीं दद्यात्पिण्डान् पृथक्पृथक्”। वसिष्ठः
“प्राङ्मुखो देवतीर्थेन प्राक्कूलेषु कुशेषुच। दत्त्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखम्”।
“नान्दीमुखेभ्यः पितृभ्यः स्वाहेति वा पिण्डदानमन्त्रः”। इति वृत्तिः। अत्र पिण्डाः कृताकृता इत्युक्तम्। तत्रैवमविष्ये
“पिण्डनिर्वपणं कुर्य्यान्न वा कुर्य्याद्विचक्षणः। वृद्धिश्राद्धे महावाहो! कुलधर्मानवेक्ष्य तु” छागलेयः
“अग्नौ करणमर्घ्यं च वाहनं चावनेजनम्। पिण्ड-श्राद्धे प्रकुर्वीत पिण्डहीने निवर्त्तते” तेनात्र भोजनस्यैवप्रधानत्वाद्यदि विप्रस्य वमनं तदा तस्यैव पार्वकस्य पुन-रावृत्तिरिति सिद्धम्”। वृद्धिश्राद्धञ्च मूतनिमित्तं यथा पुत्र-जन्मनिमित्तं माविनिमित्तं च यथा विवाहादिनिमित्त-मिति भेदः इति श्रा॰ त॰ रघु॰ समर्थितम्। तद्विधानञ्चछन्दोगपरिशिष्टादौ दृश्यम्।

६ चतुर्दशाक्षरपादके छन्दो-षेदे स्त्री
“स्वरमिदि यदि नौ तौ च नान्दीमुखी गौ” छन्दोम॰ तल्लक्षणमुक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नान्दीमुख¦ m. (-खः)
1. The lid or cover of a well.
2. The class of male progenitors to whom the Na4ndi-mukha-shra4ddha is addressed. f. (-खी) A female ancestor sharing in the same. n. (-खं)
1. A speci- es of the Sarkari, metre.
2. A Shra4ddha or funeral obsequies per- formed on joyous occasions, as initiation, marriage, &c. in which nine balls of meat are offered to the deceased father, paternal grandfather, and great grandfather; to the maternal grandfather, great grandfather, and great great grandfather; and to the mother, paternal grandmother, and paternal great grandmother. E. नान्दी good fortune, मुख principal.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नान्दीमुख/ नान्दी--मुख mf( ई)n. having a cheerful face Sin6ha7s.

नान्दीमुख/ नान्दी--मुख m. pl. (with or scil. पितरस्; also खः पितृ-गणह्)a class of deceased ancestors to whom a partic. श्राद्ध, is offered (according to some the 3 ancestors preceding the great-grandfather) Gr2S. Ya1jn5. Pur. etc.

नान्दीमुख/ नान्दी--मुख m. = नाण्डी-पटL.

नान्दीमुख/ नान्दी--मुख n. ( Hcat. )= -श्राद्धn. a श्राद्धoffered to a class of deceased ancestors(See. above ) Cat.

"https://sa.wiktionary.org/w/index.php?title=नान्दीमुख&oldid=351442" इत्यस्माद् प्रतिप्राप्तम्