नाभिवर्ष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाभिवर्षः, पुं, (नाभेरग्नीध्रपुत्त्रस्य वर्षः ।) भारत- वर्षः । यथा, “योऽसौ मनुपुत्त्रः प्रियव्रतो नाम सप्तद्वीपाधिपतिर्बभूव तस्य चाग्नीध्रादयो दश पुत्त्रा बभूवुः त्रयः प्रव्रजिताः शिष्टानां सप्तानां सप्त द्वीपाः पित्रा दत्ताः । तत्र जम्बद्वीपाधिपते- श्चाग्नीध्रस्य नव पुत्त्रा बभूवुः । नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः । रम्यो हिरण्मयश्चैव कुरुर्भद्राश्वकेतुमान् ॥ नव वर्षाणि तेभ्यः पित्रा दत्तानि वनं प्रविशता चाग्नीध्रेण । हिमालयस्याधिपतेर्नाभेरृषभः पुत्त्रो बभूव ऋषभाद्भरतः भरतेन चिरकालं धर्म्मेण शासितत्वादिदं भारतं वर्षमभूत ।” इति नारसिंहे ३० अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाभिवर्ष¦ पु॰ नाभेराग्नीध्रनृपपुत्रस्य वर्षः। जम्बुद्वीपस्थेनववर्षमध्ये वर्मभेदे नाभिशब्दे दृश्यम् तस्य नामिसंज्ञक-त्वेऽपि पश्चात् तत्कुलजमरतनाम्ना तत् ख्यातं तथाहिनृसिंहपु॰
३० अ॰ नामिपुत्रस्य ऋषमस्य पुत्रो भरतस्तेनचिरं पालितत्वादस्य भारतवर्षेति संज्ञोक्ता। नाभिवर्षस्यभारतवर्षनामता दर्शिता ऋषमशब्दे
१४
५१ पृ॰ दृश्या। अतएव विष्णुपु॰
“नाभिश्च प्रथसं वर्षमित्युपक्रमे मव वर्षास्पिउक्त्वा
“भारतस्यास्य वर्षस्य नव भेदान्निशामय” इति। नाभिवर्षस्यैव भारतवर्षत्वेन उक्तिः।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाभिवर्ष/ नाभि--वर्ष m. n. the वर्षgoverned by नाभि(son of अग्नीध्र) Pur.