नाभ्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाभ्यम्, त्रि, (नाभेरिदमिति । नाभि + यत् ।) नाभिसम्बन्धि । इति व्याकरणम् ॥ (यथा, भागवते । ३ । ४ । १३ । “पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे ॥” नाभये हितम् । “शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् । “नाभि नभश्च ।” ५ । १ । २ । इत्यस्य वार्त्तिकोक्त्या नाभेर्नभादेशस्तु न भवति । अस्य गवादितया सन्नियोगशिष्टत्वात् रथनाभा- वेव प्रवृत्तेः । नामिहिते च ॥ महादेवे, पुं । यथा, महाभारते । १२ । १८४ । १९ । “नमो नाभाय नाभ्याय नमः कटकटाय च ॥”)
