नामद्वादशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नामद्वादशी, स्त्री, (नाम्नः द्वादशी ।) व्रतविशेषः । यथा, -- “गौरी काली उमा भद्रा दुर्गा कान्तिः सर- स्वती । मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् । मार्गतृतीयामारभ्य पूर्ब्बोक्तं लभते फलम् ॥ पूर्ब्बोक्तं फलं मार्गादिद्बादशमासे कृष्णाष्टमी- व्रतफलम् । अर्द्धनारीश्वरं रुद्रमथवा उमशङ्करम् ॥ पूजयेद्विधिवन्नारी न वियोगमवाप्नुयात् । अथवा विष्णुरूपेण पूजयेच्चेश्वरं सदा ॥ शङ्करं वामभागस्थं सर्व्वकाममवाप्नुयात् । मार्गशिराद्ये केशवनारायणमाधवान् पूजयेत् । धूपस्रग्दीपाद्यैरुपोष्य संपूज्य दक्षिणाभिश्च नामभिः । अश्वमेधनृपसूयवाजपेयमतिरात्र- नक्तमथाग्निष्टोमोपवासमेव । पुरुषमेवसौत्रा- मणिं पञ्चयज्ञहोमगोलक्षं सर्व्वमथास्थाप्यान्ते नित्यं स्तरणार्च्चनात्तन्नाम्ना । इत्याद्ये नाम- द्बादशी ।” इति देवीपुराणम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नामद्वादशी¦ स्त्री द्वयोर्दशानां समाहारः द्वादशी
६ त॰।
१ गौर्य्यादिनाम्नां
२ द्वादशके तन्नाम्रा देव्युद्देश्यकब्रतभेदेच तानि नामानि च
“गौरी काली ष्टमा भद्रा दुर्गाकान्तिः सरस्वती। मङ्गला वैष्णवी लक्ष्मीः शिवानारायणी क्रमात्। मार्गतृतीयापारभ्य पूर्वोक्तं लभतेफलम्” देवीपु॰। पूर्वोक्तं फलं मार्गादिद्वादशमासेषु कृष्णा-ष्टमीव्रतफलम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नामद्वादशी¦ f. (-शी) A religious ceremony, worshipping DURGA4 daily under one of twelve appellations. E. नाम, and द्वादशी twelfth.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नामद्वादशी/ नाम--द्वादशी f. a ceremony consisting in worshipping दुर्गाunder one of her 12 appellations ( गौरी, काली, उमा, भद्रा, दुर्गा, कान्ति, सरस्वती, मङ्गला, वैष्णवी, लक्ष्मी, शिवा, नारायणी) W.