सामग्री पर जाएँ

नामापराधः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नामापराधः, पुं, (नाम्नि नामविषये अपराधः । नाम्नः सकाशात् अपराधो वा ।) साधुनिन्दा- दिरूपदुरदृष्टजनकव्यापारविशेषः । यथा, -- श्रीनारद उवाच । “के तेऽपराधा विप्रेन्द्र ! नाम्नो भगवतः कृताः । विविन्दन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति च ॥ तत् कथ्यतां महाभागापराधं नाम्नि केशवे । केन केन प्रकारेण भवेद्वै तज्जनादिषु ॥ नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥ नामैकं यस्य वाचि स्मरणपथगतं श्रोत्रमूलं गतं वा शुद्धं वाशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् । तच्चेद्देहद्रविणजनतालोभपाषण्डमध्ये निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ! ॥” इति श्रीहरिभक्तिविलासः ॥

"https://sa.wiktionary.org/w/index.php?title=नामापराधः&oldid=144033" इत्यस्माद् प्रतिप्राप्तम्