नायकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नायकः, पुं, (नयति प्रापयतीति । नी + ण्वुल् ।) नेता । (यथा, गीतायाम् । १ । ७ । “नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥”) श्रेष्ठः । (यथा, भागवते । ४ । ७ । १९ । “तमुपागतमालक्ष्य सर्व्वे सुरगणादयः । प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥”) हारमध्यमणिः । इति मेदिनी । के, ११० ॥ अग्रे सरिकः । सेनापतिः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते । ३ । २२२ । ४ । “वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः । स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥”) शृङ्गारसाधकः । स च त्रिविधः । पतिरुपपति- र्वैशिकश्चेति । विधिवत् पाणिग्राहकः पतिः । अनुकूलदक्षिणधृष्टशठभेदात् पतिश्चतुर्द्धा । सार्व्व- कालिकपराङ्गनापराङ्मुखत्वे सति सर्व्वकाल- मनुरक्तोऽनुकूलः । सकलनायिकाविषयसमसह- जानुरागो दक्षिणः । भूयो निःशङ्कः कृतदोषो- ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणो धृष्टः । कामिनीविषयकपटपटुः शठः । आचार- हानिहेतुः पतिरुपपतिः । बहुलवेश्याभोगोप- रसिको वैशिकः । वैशिकस्तूत्तममध्यमाधम- भेदात् त्रिविधः । दयिताश्रमप्रकोपेऽपि उप- चारपरायण उत्तमः । प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनो- भावं गृह्णाति स मध्यमः । भयकृपालज्जाशून्यः कामक्रीडायामकृतकृत्याकृत्यविचारोऽधमः ॥ * ॥ मानी चतुरश्च शठ एवान्तर्भवति । वाक्चेष्टा- व्यङ्ग्यसमागमश्चतुरः । प्रोषितपतिरुपपतिर्वैशि- कश्च भवति । अनभिज्ञनायको नायकाभास एव । तेषाञ्च नर्म्मसचिवपीठमर्द्दविटचेटक- विदूषकभेदाच्चतुर्धा । कुपितस्त्रीप्रसादकः पीठ- मर्द्दः । नर्म्मसचिवोऽप्ययमेव । कामतन्त्रकला- कोविदो विटः । सन्धानचतुरश्चेटकः । अङ्गादि- वैकृत्यैर्हासकारी विदूषकः ॥ * ॥ तेषामष्ट- सात्त्विकगुणाः । यथा, -- “स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रणयावित्यष्टौ सात्त्विका गुणाः ॥” * ॥ तेषां दशावस्था यथा, -- “अभिलाषस्तथा चिन्ता स्मृतिश्च गुणकीर्त्तनम् । उद्वेगश्च प्रलापश्च उन्मादो व्याधिरेव च । जडता निधनान्येव दशावस्थाः प्रकीर्त्तिताः ॥” इति रसमञ्जरी ॥ (अस्य लक्षणभेदादिकं यथा, साहित्यदर्पणे । ३ । ३३ -- ३८ । “त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्- साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान् नेता ॥ धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः । स्थेयान् निगूढमानो धीरोदात्तोदृढव्रतः कथितः ॥ मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । सामान्यगुणैर्भूयान् द्बिजादिको धीरप्रशान्तः स्यात् ॥” एषाञ्च शृङ्गारिरूपत्वे भेदानाह तत्रैव । ३ । ३९ -- ४४ । “एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा । एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥ कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः ॥ अनुकूल एकनिरतः शठोऽयमेकत्र वद्धभावो यः । दर्शितवहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ एषाञ्च त्रैविध्यात् सर्व्वेषामुत्तममध्याधमत्वेन । उक्ता नायकभेदाश्चत्वारिंशत्तथाऽष्टौ च ॥” एषामुदाहरणादिकं तत्रैव द्रष्टव्यम् ॥)
