नारकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारकः, पुं, (नरक एव । प्रज्ञाद्यण् ।) नरकः । (नरके भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) नरकस्थप्राणिनि, त्रि । इत्यमरः । १ । ९ । १ ॥ (यथा, मार्कण्डेये । १५ । ७३ । “अनुकम्पामिमामद्य नारकेष्विह कुर्व्वतः । तदेव शतसाहस्रं संख्यामुपगतं तव ॥”)
