सामग्री पर जाएँ

नारदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारदः, पुं, (नारं परमात्मविषयकं ज्ञानं ददा- तीति । दा + कः । यद्वा, नारं नरसमूहं द्यति खण्डयति कलहेनेति । दो + कः । नारं जलं ददाति पितृभ्य इति वा । तदुक्तम्, -- “नारं पानीयमित्युक्तं तत् पितृभ्यः सदा भवान् । ददाति तेन ते नाम नारदेति भविष्यति ॥”) देवर्षिविशेषः । स तु भोगाशी ब्रह्मशापादुप- वर्हणनामा गन्धर्व्वो भूत्वा पुनर्ब्रह्मवीर्य्यात् शूद्र- पत्न्यां जातः । यथा, -- शौनक उवाच । “ब्रह्मवीर्य्याच्छूद्रपत्न्यां गन्धर्व्वश्चोपवर्हणः । जातः केन प्रकारेण तद्भवान् वक्तुमर्हति ॥ सौतिरुवाच । कान्यकुब्जे च देशे च द्रुमिलो गोपराजकः । कलावती तस्य पत्नी बन्ध्या चापि पतिव्रता ॥ स्वामिदोषेण सा बन्ध्या काले च भर्त्तुराज्ञया । उपस्थितं वने घोरे नारदं काश्यपं मुनिम् ॥ क्रोशमानञ्च श्रीकृष्णं ज्वलन्तं ब्रह्मवर्च्चसा । तस्थौ सुवेशं कृत्वा सा ध्यानान्तञ्च मुनेः पुरः ॥ उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि । गोपिकाहं द्विजश्रेष्ठ ! द्रुमिलस्य च कामिनी । पुत्त्रार्थिनी चागताहं तन्मूलं भर्त्तुराज्ञया ॥ वीर्य्याधानं कुरु मयि ! स्त्री नोपेक्ष्या ह्यपस्थिता । तेजीयसां न दोषाय वह्नेः सर्व्वभुजो यथा ॥ वृषलीवचनं श्रुत्वा चुकोप मुनिपुङ्गवः । वृषली तत्पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका ॥ एतस्मिन्नन्तरे तेन पथा यास्यति मेनका । तस्या ऊरुस्थलं दृष्ट्वा मुनिवीर्य्यं पपात ह ॥ ऋतुस्नाता च वृषली कृत्वा तद्भक्षणं मुदा । सा विप्र ! गेहे साध्वी च सुषुवे तनयं वरम् ॥ तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा । अनावृष्ठ्यवशेषे च काले बालो बभुव ह ॥ नारं ददौ जन्मकाले तेनायं नारदाभिधः ॥ ददाति नारं ज्ञानञ्च बालकेभ्यश्च बालकः । जातिस्मरो महाज्ञानी तेनायं नारदाभिधः ॥ वीर्य्येण नारदस्यैव बभूव बालको मुने ! । मुनीन्द्रस्य वरेणैव तेनायं नारदाभिधः ॥ कल्पान्तरे ब्रह्मकण्ठाद्बभूवुर्बहवो नराः । नरान्ददौ तत्कण्ठञ्च तेन तन्नारदः स्मृतः ॥ ततो बभूव कालश्च नारदात् कण्ठदेशतः । ततो ब्रह्मा नाम चक्रे नारदश्चेति मङ्गलम् ॥ एतस्मिन्नन्तरे विप्रा आययुर्विप्र मन्दिरम् । शिशवः पञ्चवर्षीया महातेजस्विनो यथा ॥ चतुर्ष्वेको मुनिस्तस्मै ब्राह्मणाश्च कृपालवः । ब्रह्मपुत्त्रं शिशुं ज्ञात्वा विष्णुमन्त्रं ददौ मुदा ॥ महाज्ञानी शिशुस्तस्थौ गङ्गातीरे मनोहरे । तत्र स्नात्वा विप्रदत्तं विष्णुमन्त्रं जजाप सः ॥ दिव्यं वर्षसहस्रञ्च निराहारः कृशोदरः । ददर्श बालको ध्याने दिव्यं लोकञ्च बालकम् ॥ द्बिभुजं मुरलीहस्तञ्चन्दनेन विचर्च्चितम् । विरराम च शोकार्त्तो यदा यद्द्रष्टुमक्षमः ॥ रुरोदाश्वत्थमूले च न दृष्ट्वा बालकं शिशुः । बभूवाकाशवाणीति रुदन्तं बालकं प्रति ॥ सकृद्यद्दर्शितं रूपं तदेव नाधुना पुनः । पुनर्द्रक्षसि गोविन्दं जन्ममृत्युहरं हरिम् ॥ इति श्रुत्वा बालकश्च विरराम मुदान्वितः । काले तत्याज तीर्थे च तनुं कृष्णं हृदि स्मरन् ॥ बभूव शापमुक्तिश्च नारदस्य महामुने ! । तनुं त्यक्त्वा स जीवश्च विलीनो ब्रह्मविग्रहे ॥ कतिकल्पान्तरेऽतीते स्रष्टुं सृष्टिविधौ पुनः । मरीचिमिश्रैर्मुनिभिः सार्द्धं कण्टाद्बभूव सः ॥ नारदश्चेति विख्यातो मुनीन्द्रस्तेन हेतुना ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २१ -- २२ अध्यायौ ॥ तस्य सर्व्वदा भ्रमणकारणं यथा, -- “तांश्चापि नष्टान् विज्ञाय पुत्त्रान् दक्षप्रजापतिः । क्रोधञ्चक्रे महाभाग ! नारदं स शशाप च ॥” नारदशापश्च श्रीभागवतोक्तः । “तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ।” इति विष्णुपुराणे १ अंशे १५ अध्याय- स्तट्टीका च ॥ (पञ्चविंशतिसहस्रश्लोकात्मक उपपुराणविशेषः । यथा, देवीभागवते । १ । ३ । ९ । “षोडशैव सहस्राणि पुराणञ्चाग्निसंज्ञितम् । पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥” शाकद्वीपस्य पर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ११ । “नारदो नाम चैवोक्तो दुर्गशैलो महाचितः । तत्राचले समुत्पन्नौ पूर्ब्बं नारदपर्व्वतौ ॥” विश्वामित्रपुत्त्रविशेषः । यथा, महाभारते । १३ । ४ । ५८ । “उर्ज्जयोनिरुदापेक्षी नारदश्च महानृषिः । विश्वामित्रात्मजाः सर्व्वे मुनयो ब्रह्मवादिनः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारदः [nāradḥ], [नरस्य धर्मो नारं, तत् ददाति दा-क] N. of a celebrated Devarṣi (deified saint or divine sage). [He is one of the ten mind-born sons of Brahmā, being supposed to have sprung from his thigh (Ms.1. 35). He is represented as a messenger from the gods to men and vice versa and as being very fond of promoting discords among gods and men; hence his epithet of Kalipriya. He is said to have been the inventor of the lute or Vīṇā. He is also the author of a code of laws which goes by his name.] -Comp. -उपनिषद् N. of a Upaniṣad.

"https://sa.wiktionary.org/w/index.php?title=नारदः&oldid=352589" इत्यस्माद् प्रतिप्राप्तम्