सामग्री पर जाएँ

नाराचः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नाराचः, पुं, (नारं नरसमूहं आचामतीति । चमु अदने + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) समुदायलौहमयबाणः । तत्पर्य्यायः । प्रक्ष्वेडनः २ । इत्यमरः । २ । ८ । ८७ ॥ लोह- नालः ३ । इति शब्दरत्नावली ॥ (यथा, बृहत्शार्ङ्गधरे । “सर्व्वलौहास्तु ये बाणा नाराचास्ते प्रकीर्त्तिताः । पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्य- चित् ॥”) दुर्दिनम् । इति शब्दमाला ॥ (अष्टादशाक्षर- वृत्तिविशेषः । इति छन्दोमञ्जरी ॥ अस्य लक्ष- णादिकं छन्दःशब्दे द्रष्टव्यम् ॥ वैद्यकोक्तघृत- विशेषः । यथा, भावप्रकाशे उदररोगाधिकारे । “स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग- सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः । घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षसमेन कर्षम् ॥ पीतोष्णमम्भोऽनुपिबेद्विरेफे पेयं रसं वा प्रपिबेद्बिधिज्ञः । नाराचमेनं जठरामयाना- मुक्तं प्रयुक्तं प्रवदन्ति सन्तः ॥” इति नाराचघृतम् ॥ * ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नाराचः [nārācḥ], [नरान् आचामति आ-चम्-ड स्वार्थे अण् , नारम् आचामति वा Tv.]

An iron arrow; तत्र नाराचदुर्दिनम् R.4.41.

An arrow in general; सर्वलोहास्तु ये बाणाः नाराचास्ते प्रकीर्तिताः । पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्यचित् ॥ Dhanur. 73; Rām.3.25.25; कनकनाराचपरंपराभिरिव K.57.

Water-elephant.

A road running towards the east; Kāmikāgama 25.3.

"https://sa.wiktionary.org/w/index.php?title=नाराचः&oldid=352782" इत्यस्माद् प्रतिप्राप्तम्