सामग्री पर जाएँ

नारायणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणः, पुं, (नारा जलं अयनं स्थानं यस्य । अय गतौ + भावे ल्युट् । सर्म्वे गत्यर्थाः प्राप्त्य- र्थाश्च इति नियमात् नारस्य ज्ञानस्य मुक्तेर्वा अयनं प्राप्तिर्यस्मात् इति वा । “नराणां समूहो नारं तत्रायनं स्थानं यस्य नारायणः रेफात् परनकारस्य णत्वविधानात् सर्व्वप्राणिबुद्धि- गुहानिवासाच्छुद्धचैतन्यमित्यर्थः ।” इति शङ्कर- विजये नवमप्रकरणम् ।) विष्णुः । तस्य चत्वारो व्यूहाः । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्याः । इति महाभारतम् ॥ वेदान्तमते । शुद्धान्त- र्यामिसूत्रविराडाख्याः ॥ तन्नामव्युत्पत्तिर्यथा, -- “सारूप्यमुक्तिवचनो नारेति च विदुर्बुधाः । यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः ॥ नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् । यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः ॥ नारञ्च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम् । तयोर्ज्ञानं भवेद्यस्मात् सोऽयं नारायणः स्मृतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०९ अः ॥ “आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्ब्बं तेन नारायणः स्मृतः ॥” इति विष्णुपुराणम् ॥ यद्वा । “नाराजातानि तत्त्वानि नाराणीति विदुबुधाः । तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥” अजामिलपुत्त्रः । यथा, -- “कान्यकुब्जे द्बिजः कश्चिद्दासीपतिरजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ तस्य प्रवयसः पुत्त्रा दश तेषान्तु योऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ दूरे क्रीडनकासक्तं पुत्त्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ निशम्य म्रियमाणस्य मुखतो हरिकीर्त्तनम् । भर्त्तुर्नाम महाराज ! पार्श्वदाः सहसापतन् ॥ विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥” इति श्रीभागवते षष्ठस्कन्धे प्रथमाध्यायः ॥ सैन्यविशेषः । यथा, -- “मत्संहननतुल्यानां गोपानामर्व्वुदं महत् । नारायणा इति ख्याताः सर्व्वे संग्रामयोधिनः ॥” “दुर्य्योधनश्च तत् सैन्यं सर्व्वमावारयत्ततः । सहस्राणां सहस्रञ्च योधानां प्राप्य भारत ! ॥” इति महाभारते । ५ । ७ अध्यायः ॥ धर्म्मपुत्त्रर्षिविशेषः । यथा, -- “धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां नारायणो नर इति स्वतपःप्रभावः ॥” इति श्रीभागवते । २ । ७ । ६ ॥ “दण्डग्रहणमात्रेण नरो नारायणो भवेत् ॥” इति यतिधर्म्मः ॥ (कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः । यथा, मुक्तिकोपनिषदि । “गर्भो नारायणो हंसो बिन्दुर्नादशिरःशिखा ॥” चूर्णौषधिविशेषः । यथा, भावप्रकाशे उदर- रोगाधिकारे । “यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका । कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥ शताह्वा जीरको व्योषं स्वर्णक्षीरी च चित्रकम् । द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥ विडङ्गञ्च समांसानि दण्ड्या भागत्रयं भवेत् । त्रिवृद्बिशाले द्बिगुणे सातला स्याच्चतुर्गुणा ॥ एष नारायणो नाम्ना चूर्णो रोग गणापहः । एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ॥ तक्रेणोदरभिः पेयो गुल्मिभिर्व्वादराम्बुना । आनद्धवाते सुरया वातरोगे प्रसन्नया ॥ दधिमण्डेन विड्बन्धे दाडिमाम्बुभिरर्शसे । परिकर्त्तेषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥ भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे । हृद्रोगे ग्रहणीरोगे कुष्ठे मन्देऽनले ज्वरे ॥ दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे । यथार्हं स्निग्धकोष्णेन पेयमेतद्विरेचनम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणः [nārāyaṇḥ], 1 An epithet of Viṣṇu; (the word is thus derived in Ms.1.1. आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥) नारायणं नमस्कृत्य ...... ततो जयमुदीरयेत् Mb.1.1.1; नीरे नीरचरैः समं स भगवान् निद्राति नारायणः Jagannātha Paṇḍita.

N. of an ancient sage said to be a companion of Nara and to have produced Urvaśī from his thigh; cf. ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V.1.3; see नरनारायण under नर also.

N. of the second month (reckoning from मार्गशीर्ष).

णी An epithet of Lakṣmī the goddess of wealth.

An epithet of Durgā.

An epithet of Gaṅgā and Gaṇḍakī.

N. of a plant (Mar. शतावरी). -Comp. -अस्त्रम् N. of a missile. -उपनिषद् N. of an Upaniṣad.

प्रियः N. of Śiva.

yellow sandal-wood. -बलिः an oblation given to five deities including नारायण in performing the funeral rites of a person dying a sinful death.

"https://sa.wiktionary.org/w/index.php?title=नारायणः&oldid=352832" इत्यस्माद् प्रतिप्राप्तम्