नारायणक्षेत्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारायणक्षेत्रम्, क्ली, (नारायणस्य क्षेत्रं स्थानम् ।) गङ्गाप्रवाहावधिहस्तचतुष्टयमितनारायणस्वा- मिकस्थानम् । यथा, ब्रह्मपुराणे । “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । अत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥” “अत्र किञ्चिन्न दद्याञ्च साक्षात् पात्राय पुण्य- वान् । अत्र प्रतिग्रहे राजन् ! विक्रीता जाह्रवी भवेत् ॥ विक्रीतायाञ्च जाह्नव्यां विक्रीतोऽभूज्जनार्द्दनः । जनार्द्दने च विक्रीते विक्रीतं भुवनत्रयम् ॥ कोऽपि न त्राणकर्त्तास्य निःसम्बन्धप्रसङ्गतः ॥” तत्र कर्त्तव्यानि यथा, -- “दीक्षाञ्च देवपूजाञ्च जपं गङ्गातटे चरेत् । शुष्कवासः पिधायापि सावित्रीजपमाचरेत् ॥ श्राद्धञ्च तर्पणञ्चैव परोपकारकर्म्म च । परोद्देशञ्च मनसा त्यक्तद्रव्यस्य दापने । स्तवपाठञ्च मौनञ्च नीचालापविवर्ज्जनम् ॥ केवलं वारिपानञ्च कर्त्तव्यं ब्रह्मभावतः । एतानि किल कर्म्माणि क्षेत्रे नारायणे चरेत् ॥” इति बृहद्धर्म्मपुराणे ४५ अध्यायः ॥ अवशिष्टं गङ्गाशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारायणक्षेत्र¦ न॰
६ त॰। नारायणस्वामिके गङ्गातट-क्षेत्रभेदे
“प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम्। तत्रनारायणः स्वामी नान्यः स्वामी कथञ्चन” ब्रह्मपु॰। अत्रच वर्ज्यमुक्तं वृहद्धर्म पु॰
४५ अ॰।
“अत्र किञ्चिन्न दद्याच्च साक्षात्पात्राय पुण्यवान्। अत्रप्रतिग्रहे राजन्! विक्रीता जाह्नवो भवेत्। विक्रीता-याञ्च जाह्नव्यां विक्रीतः स्याज्जनार्द्दनः। जनार्दने च वि-क्रीते विक्रीतं भुवनत्रयम्। कोऽपि न त्राणकर्त्तास्य निः-स्वम्बन्धप्रसङ्गतः”। तत्र कर्त्तव्यानि यथा
“दीक्षाञ्चदेवपूजाद्ध जपं गङ्गातटे चरेत्। शुष्क{??}सः पिधायात्रसावित्रीजपमाचरेत्। श्राद्धञ्च तर्पणञ्चैव परोपकारकर्म[Page4047-a+ 38] च। परोद्देशञ्च मनसा त्यक्तद्रव्यस्य दापनम्। स्तवपाठञ्चमौनञ्च नीचालापविवर्ज्जनम्। केवलं वारिपानञ्चकर्त्तव्यं ब्रह्मभावतः। एतानि किल कर्माणि क्षेत्रेनारायणे चरेत्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारायणक्षेत्र¦ n. (-त्रं) Four cubits on either side of the stream of the Ganges, E. नारायण and क्षेत्र shrine.
