सामग्री पर जाएँ

नारायणक्षेत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणक्षेत्रम्, क्ली, (नारायणस्य क्षेत्रं स्थानम् ।) गङ्गाप्रवाहावधिहस्तचतुष्टयमितनारायणस्वा- मिकस्थानम् । यथा, ब्रह्मपुराणे । “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । अत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥” “अत्र किञ्चिन्न दद्याञ्च साक्षात् पात्राय पुण्य- वान् । अत्र प्रतिग्रहे राजन् ! विक्रीता जाह्रवी भवेत् ॥ विक्रीतायाञ्च जाह्नव्यां विक्रीतोऽभूज्जनार्द्दनः । जनार्द्दने च विक्रीते विक्रीतं भुवनत्रयम् ॥ कोऽपि न त्राणकर्त्तास्य निःसम्बन्धप्रसङ्गतः ॥” तत्र कर्त्तव्यानि यथा, -- “दीक्षाञ्च देवपूजाञ्च जपं गङ्गातटे चरेत् । शुष्कवासः पिधायापि सावित्रीजपमाचरेत् ॥ श्राद्धञ्च तर्पणञ्चैव परोपकारकर्म्म च । परोद्देशञ्च मनसा त्यक्तद्रव्यस्य दापने । स्तवपाठञ्च मौनञ्च नीचालापविवर्ज्जनम् ॥ केवलं वारिपानञ्च कर्त्तव्यं ब्रह्मभावतः । एतानि किल कर्म्माणि क्षेत्रे नारायणे चरेत् ॥” इति बृहद्धर्म्मपुराणे ४५ अध्यायः ॥ अवशिष्टं गङ्गाशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=नारायणक्षेत्रम्&oldid=144064" इत्यस्माद् प्रतिप्राप्तम्