सामग्री पर जाएँ

नारायणतैल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणतैलम्, क्ली, (नारायणाख्यं तैलम् ।) औषध- पक्वतैलप्रभेदः । तत्त्रिविधम् । स्वल्पं बृहत् महच्च । यथा, -- “विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकाः । प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा । एषां दशपलान् भागान् चतुर्द्रोणेऽम्भसः पचेत् ॥ पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत् । शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥ चन्दनं तगतं कुष्ठं एलापर्णी चतुष्टयम् । रास्ना तुरगगन्धा च सैन्धवं सपुनर्नवम् ॥ एषां द्बिपलिकान् भागान् पेषयित्वा विनिः- क्षिपेत् । शतावरी रसञ्चैव तैलतुल्यं प्रदापयेत् ॥ आजं वा यदि वा गव्यं क्षीरं दत्ता चतुर्गुणम् ॥ पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते । अश्वो वा वातसंभग्नो गजो वा यदि वा नरः ॥ पङ्गुलः पीठसर्पी च तैलेनानेन सिध्यति । अधोभागे च ये वाताः शिरोमध्यगताश्च ये । दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे ॥ यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला । क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः ॥ वधिरा लल्लजिह्वाश्च मन्दमेधस एव च । अल्पप्रजा च या नारी या च गर्भं न विन्दति ॥ वातार्त्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा । एतत्तैलवरं तेषां नाम्ना नारायणं स्मृतम् ॥” इति स्वल्पनारायणतैलम् ॥ १ ॥ * ॥ “शतावरी चांशुमती पृश्निपर्णी शटी बला । एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च ॥ गवेधुकस्य मूलानि तथा सहचरस्य च । एषां दशपलान् भागान् जलद्रोणे विपाचयेत् ॥ पादशेषे रसे पूते गर्भं चैनं समावपेत् । पुनर्नवा वचा दारु शताह्वा नन्दनागुरु ॥ शैलेयं तगरं कुष्टं एला मांसी स्थिरा बला । अश्वाह्वा सैन्धवं रास्ना पलार्द्धानि च पेषयेत् । गव्याजपयसः प्रस्थौ द्बौ द्वावत्र प्रदापयेत् ॥ शतावरीरसप्रस्थं तैलप्रस्थं विपाचयेत् । अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतःपरम् ॥ प्राप्नोति लक्ष्मीं प्रमदाप्रियत्वं जीवेच्चिरं चापि भवेद्युवेव ॥ देवासुरे युद्धवरे समीक्ष्य स्नाय्वस्थिभग्नानसुरैः सुरांश्च । नारायणेनापि स्वबृंहणार्थं स्वनामतैलं विहितन्तु तेषाम् ॥” इति महानारायणतैलम् ॥ ३ ॥ इति सुखबोधः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणतैल¦ n. (-लं) An oil of great reputed efficacy in many complaints, expressed from a variety of plants. E. नारायण and तैल oil.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणतैल/ नारायण--तैल See. above.

"https://sa.wiktionary.org/w/index.php?title=नारायणतैल&oldid=352908" इत्यस्माद् प्रतिप्राप्तम्