सामग्री पर जाएँ

नारायणबलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणबलिः, पुं, (नारायणाय नारायणमुद्दिश्य देयो बलिः ।) मृतपतितादीनां प्रायश्चित्ता- त्मककर्म्मविशेषः । यथा । “नारायणबलिस्तु हेमाद्र्याद्यनुसारेणोच्यते । तत्रादौ क्रियानिबन्धे गारुडे तर्पणमुक्तम् । ‘कार्य्यं पुरुषसूक्तेन मन्त्रैर्व्वा वैष्णवैरपि । दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् ॥ अनादिनिधनो देवः शङ्खचक्रगदाधरः । अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ॥’ इति शुक्लैकादश्यां देशकालौ सङ्कीर्त्त्य अमुक- गोत्रस्यामुकस्य दुर्म्मरणात्मघातजदोषनाशार्थं और्द्ध्वदेहिके संप्रदानत्वयोग्यतासिद्ध्यर्थं नारा- यणबलिं करिष्ये । इति सङ्कल्प्य ब्रह्माणं विष्णुं शिवं यमं प्रेतं पञ्चकुम्भेषु स्थापयेत् । ‘विष्णुः स्वर्णमयः कार्य्यो रुद्रस्ताम्रमयस्तथा । ब्रह्मा रौप्यमयस्तत्र यमो लौहमयो भवेत् ॥ प्रेतो दर्भमयः कार्य्यः ।’ इति गारुडोक्तासु सर्व्वासु हैमीषु वा प्रतिमासु षोडशोपचारैः पुरुष- सूक्तेनाभ्यर्च्च्याग्निं प्रतिष्ठाप्य चरुं पुरुषसूक्तेन प्रतृयचं नारायणायेदमिति हुत्वा देवानामग्ने दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नाम- गोत्राभ्यां मधुघृततिलयुतान् दशपिण्डान् यज्ञो- पवीत्येव अमुकगोत्र अमुकशर्म्मन् प्रेत विष्णु- रूपाय ते पिण्ड उपतिष्ठतामिति दत्त्वा कुशैः पुरुषसूक्तेनाभिमन्त्र्य यत्ते यममिति सूक्तेन पिण्डाननुमन्त्र्य शङ्खोदकेन चाभिषिच्याभ्यर्च्च्या- मुकशर्म्माणममुकगोत्रं विष्णुरूपं प्रेतं तर्पया मीति पुरुषसूक्तेन प्रतृयचं तर्पयित्वा एक- मामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् । मन्त्रस्तु । ‘ब्रह्मविष्णुमहादेवा यमश्चैव सकिङ्करः । बलिं गृहीत्वा कुर्व्वन्तु प्रेतस्य च शुभां गति- मिति ॥’ मिताक्षरायान्तु होमबल्यादिना उक्तम् । ततः प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानि च निवेद्य पिण्डानभ्यर्च्च्य नद्यां क्षिप्त्वा रात्रौ नव सप्त पञ्च वा विप्रान्निमन्त्र्योपोषितेन जागरणं कृत्वा श्वोभूते पुनर्व्विष्णुं यमं संपूज्यैकोद्दिष्ट- विधिना श्राद्धपञ्चकं करिष्ये इत्युक्त्वा ब्रह्मविष्णु- शिवयमप्रेतान् स्मरन् विप्रान् उपविश्य प्रेत- स्थाने चैकं विष्णुं स्मरन् आवाहनाद्यर्घ्ययुतं तृप्तिप्रश्नान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेण ब्रह्मणे विष्णवे शिवाय यमाय सपरिवाराय चतुरः पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णु- नाम्ना पञ्चमं दत्त्वाभ्यर्च्च्याचान्तेभ्यो दक्षिणां दत्त्वैकं प्रेतं स्मृत्वा विशेषतः संतोष्य विप्रैः प्रेतायेदं तिलोदकमुपतिष्ठतामिति सतिलमुदकं दापयित्वा भुञ्जीतेति । अत्र विशेषान्तरं भट्ट- कृतान्त्येष्टिपद्धतौ ज्ञेयम् ॥ * ॥ सर्पहते तु वर्ष- पर्य्यन्तं पूर्ब्बे ह्येकभक्तपूर्ब्बं शुक्लपञ्चम्यामुपवासं नक्तं वा कृत्वा पिष्टमयं नागमनन्तवासुकिशङ्ख- पद्मकम्बलकर्क्कोटकाश्वतरधृतराष्ट्रशङ्खपालका- लियतक्षककपिलेति नामभिः प्रतिमासं संपूज्य पायसेन विप्रान् संभोज्य वत्सरान्ते हैमं नागं गाञ्च प्रत्यक्षाञ्च दत्त्वा नारायणबलिं कुर्य्यात् । मूलन्तु हेमाद्रौ ज्ञेयम् ॥ * ॥ बौधायनसूत्रे सर्पमृतानां नमोऽस्तु सर्पेभ्य इति तिस्र आहु- तीर्हुत्वोदके मृतानां समुद्राय वरुणाय हुत्वेति क्रियां कुर्य्यादिति शेषः । व्यासः । सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान् ॥’ हेमाद्रौ भविष्ये । ‘पञ्चम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत् । क्षीराज्यपात्रमध्यस्थं पूज्यविप्राय दापयेत् ॥ प्रायश्चित्तमिदं प्रोक्तं नागदष्टस्य शम्भुनेति ॥’ अपरार्कस्मृत्यन्तरे । ‘तदैव शुध्यति प्रेतो नारायणबलौ कृते । यो ददाति क्रियापिण्डं तस्मै प्रेताय वै सुतः । तस्यैवाशौचमुद्दिष्टं त्र्यहमेव न संशयः ॥ विष्णुश्राद्धसमाप्तौ तु त्रयोदश्यां दिनत्रयम् । अशौचं पिण्डदः कुर्य्यान्न तु तद्बन्धुगोत्रजाः ॥ यस्य वै मृत्युकाले तु व्युच्छिन्ना सन्ततिर्भवेत् । स वसेन्नरके नित्यं पङ्कमग्नः करी यथा ॥’ इत्युपक्रम्य, -- ‘बलिं नारायणं कुर्य्यात्तस्योद्देशेन भक्तिमान् ॥’ इति गारुडोक्तेरपुत्त्रस्यापि पत्न्याद्यैः कार्य्य इत्युक्तं देवयाज्ञिकेन ।” इति निर्णयसिन्धौ ५ परिच्छेदः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणबलि¦ पु॰ नारायणमुद्दिश्य देयो बलिः। दुर्मरण-मृतानामौर्द्धदेहिकक्रियासम्प्रदानतायोग्यत्वार्थं नारा-यणादिपञ्चदेवतोद्देशेन देये बलिभेदे तस्य निमि-त्तञ्च आत्मधातिन्शब्दे

६६

० पृ॰ उक्तं तद्विधानं निर्णयसिन्धावुक्तं यथा
“नारायणवलिस्तु हेमाद्र्याद्यनुसारेणोच्यते तत्रादौक्रियानिबन्धे गारुडे तर्पणमुक्तम्
“कार्य्यं पुरुषसूक्तेनमन्त्रैर्वा वैष्णवैरपि। दक्षिणाभिमुखो भूत्वा प्रेतं विष्णु-मिति स्मरन्। अनादिनिधनो देवः शङ्खचक्रगदाधरः। अक्षय्यः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेति”। शुक्लैका-दश्यां देशकालौ संकीर्त्यामुकगोत्रस्यामुकस्य दुर्मरणा-त्मघातजदोषनाशार्थम् और्ध्वदेहिकसम्प्रदानत्वयोग्यता-सिध्यर्थं नारायणवलिं करिष्ये इति सङ्कल्प्य ब्रह्माणंविष्णुं शिवं यमं प्रेतञ्च पञ्चकुम्भेषु स्थापयेत्
“विष्णुःस्वर्णमयः कार्यो रुद्रस्ताम्रमयस्तथा। ब्रह्मा रौप्यमयस्तत्रयमो लोहमयो भवेत्। प्रेतोदर्भमयः कार्य्य इति देव-प्रकल्पनेति” गारुडोक्तामु सर्वासु हैमीषु बा प्रतिमासुषोडशोपचारैः पुरुषसूक्तेनाभ्यर्च्याग्निं प्रतिष्ठाप्य चरुंपुरुषसूक्तेन प्रत्यृचं नारायणायेदमिति हुत्वा देवाना-मग्रे दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नामगो-त्राभ्यां मधुघृततिलयुतान् दश पिण्डान् यज्ञोपवी-त्येवामुकगोत्रामुकशर्मन्! प्रेत। विष्णुरूपाय ते पिण्डउपतिष्ठताभिति दत्त्वा पुरुषसूक्तेनाभिमन्त्र्य तेनैवशङ्खोदकेनाभिषिच्याभ्यर्च्यामुकशर्माणममुकगोत्रं विष्णु-रूपं प्रेतं तर्पयामीति पुरुषसूक्तेन प्रत्यृचं तर्पयित्वाएवमामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् मन्त्रस्तु
“ब्रह्मविष्णु-महाद्वेवा यमश्चैव सकिङ्करः। वलिं गृहीत्वा कुर्वन्तुप्रेतस्य च शुभां गतिम्”। मिताक्षरायान्तु होमवल्यादिनोक्तम्। ततः प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानिच निवेद्य पिण्डानभ्यर्च्य नद्यां क्षित्वा रात्रौ नव सप्त पञ्चवा विप्रान्तिमन्त्र्योपोषितो जागरं कृत्वा श्वोभूते पुनर्विष्णुंब्रह्माणं रुद्रं यमं संपूज्यैकोद्दिष्टविधिना श्राद्धपञ्चकं[Page4047-b+ 38] करिष्ये इत्युक्त्वा विष्णुयमब्रह्मरुद्रप्रेतान् स्मरन्विप्रानुपवेश्य प्रेतस्थाने चैकं विष्णुं स्मरन् पाद्यावा-हनार्घ्ययुतं तृप्तिप्रश्रान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेणविष्णवे ब्रह्मणे शिबाय यमाय सपरिवाराय चतुरःपिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णुनाम्ना पञ्चमंदत्त्वाभ्यर्च्याचान्तेभ्यो दक्षिणां दत्त्वैकं प्रेतं स्मृत्वा विशे-षतः सन्तोष्य विप्रैः प्रेतायेदं तिलोदकमुपतिष्ठतामितिसतिलमुदकं दापयित्वा भुञ्जीतेति। अत्र विशेषान्तरंच अनन्तभट्टकृतान्त्येष्टिपद्धतौ ज्ञेयम्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणबलि/ नारायण--बलि m. " oblation to -N नरायण" , a partic. funeral ceremony

नारायणबलि/ नारायण--बलि m. N. of wk. (also 605942 -प्रयोगm. 605942.1 -विधिm. 605942.2 -समर्थनn. 605942.3 -स्वयम्-प्रयोजन-सञ्चिकाf. )

"https://sa.wiktionary.org/w/index.php?title=नारायणबलि&oldid=352971" इत्यस्माद् प्रतिप्राप्तम्