नारायणास्त्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारायणास्त्रम्, क्ली, (नारायणस्यास्त्रम् ।) विष्णो- रस्त्रभेदः । तत्स्वरूपं यथा, देवीपुराणे । “तदा दानवनाथेन युक्तं नारायणं शरम् । शङ्खचक्रगदाहस्तं खड्गपृष्ठव्यवस्थितम् ॥” अपि च । “ततो हरिहरं युद्धमभवद्रोमहर्षणम् । रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा ॥ हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् । नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते ॥ पुयुधाते भृशं दिव्यं परस्परजिघांसया । दिव्यं वर्षसहस्रन्तु तयोर्युद्धमभूत्तदा ॥ तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यजटजालकम् । एकं प्रध्मापयच्छङ्खमन्यं डमरुकं शुभम् ॥ एकं खड्गधरं तत्र तथान्यं दण्डधारिणम् । एकं कौस्तभभीमाङ्गमन्यं भूतिविभूतिकम् ॥ एकं गदां भ्रामयन्तं द्वितीयं दण्डमेव च । एकः शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परः । एकं पीताम्बरं तत्र द्बितीयं सर्पमेखलम् ॥ एवन्तौ स्पर्द्धिनावस्त्रौ रुद्रनारायणात्मकौ । अन्योन्यातिशयोपेतौ तदा लोकपितामहः ॥ उवाच शाम्यतामस्त्रे स्वस्वभावेन सुव्रते । एवन्ते ब्रह्मणा चोक्ते शान्तभावं प्रजग्मतुः ॥ तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ह । उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यतः ॥” इति वराहपुराणम् ॥
