नारिकेलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारिकेलः, पुं, (किल श्वैत्ये क्रीडने च + भावे घञ् । नार्य्या रमण्याः केल इव सुखदायी केलो यस्य । पृषोदरादित्वात् ह्रस्वः ।) स्वनाम- प्रसिद्धफलवृक्षविशेषः । तत्पर्य्यायः । लाङ्गली २ । इत्यमरः । २ । ४ । १६८ ॥ नारिकेरः ३ नाडि- केलः ४ नारीकेलः ५ नारीकेली ६ नारि- केरी ७ । इत्यादि भरतः । नारिकेलिः ८ सदापुष्पः ९ शिरःफलः १० । इति शब्दमाला ॥ नालिकेरः ११ रसफलः १२ सुतुङ्गः १३ कूर्च्च- शेखरः १४ दृढनीलः १५ नीलतरुः १६ मङ्गल्यः १७ उच्चतरुः १८ तृणराजः १९ स्कन्धतरुः २० दाक्षिणात्यः २१ दुरारुहः २२ त्र्यम्बकफलः २३ दृढफलः २४ । इति राजनिर्घण्टः ॥ कूर्च्च- शीर्षकः २५ तुङ्गः २६ स्कन्धफलः २७ उच्चः २८ सदाफलः २९ । इति भावप्रकाशः ॥ शिरा- फलः ३० करकाम्भाः ३१ पयोधरः ३२ मत्- कुणः ३३ कौषिकफलः ३४ फलमुण्डः ३५ चटा- फलः ३६ मुण्डफलः ३७ विश्वामित्रप्रियः ३८ । इति शब्दरत्नावली ॥ नारकेरः ३९ सुभङ्गः ४० फलकेसरः ४१ । इति जटाधरः ॥ अस्य गुणाः । गुरुत्वम् । स्निग्धत्वम् । शीतत्वम् । पित्तनाशित्वञ्च ॥ * ॥ अर्द्धपक्वस्य तस्य गुणौ । तृषाशोषशमनत्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ बाल- नारिकेलजलगुणाः । लघुत्वम् । शीतलत्वम् । रसपाके मधुरत्वम् । पित्तपीनसतृषास्रविदाह- भ्रान्तिशोषशमनत्वम् । सुखदायित्वञ्च ॥ * ॥ पक्वनारिकेलजलगुणाः । किञ्चित्पित्तकारित्वम् । रुचिदत्वम् । मधुरत्वम् । दीपनत्वम् । बल- करत्वम् । गुरुत्वम् । वृष्यत्वम् । वीर्य्यवर्द्धन- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “नारिकेलफलं शीतं दुर्ज्जरं वस्तिशोधनम् । विष्टम्भि वृंहणं बल्यं वातपित्तास्रदाहनुत् ॥ विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरमूत्रदोषान् । तदेव जीर्णं गुरु पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः ॥ तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु । पिपासापित्तजित् स्वादु वस्तिशुद्धिकरं परम् ॥” तस्य मस्तिष्कगुणाः । “नारिकेलस्य तालस्य खर्ज्जूरस्य शिरांसि तु । कषायस्निग्धमधुरवृंहणानि गुरूणि च ॥” इति भावप्रकाशः ॥ * ॥ “बालस्य नारिकेलस्य जलं प्रायो विरेचनम् ॥” इति राजवल्लभः ॥ * ॥ कांस्यपात्रे तज्जलं मद्यतुल्यम् । यथा, -- “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥” इति कर्म्मलोचनम् ॥
