नारिकेलक्षीरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारिकेलक्षीरी, स्त्री, (नारिकेलोद्भवा क्षीरी ।) सितागव्याज्यसंयुक्तगोदुग्धपक्वसूक्ष्मीकृतनारि- केलखण्डम् । यथा, -- “नारिकेलं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् । सितागव्याज्यसंयुक्तं तत्पचेन्मृदुनाग्निना ॥” तस्या गुणाः । “नारिकेलोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा । गुर्व्वी सुमधुरा वृष्या रक्तपित्तानिलापहा ॥” इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारिकेलक्षीरी¦ स्त्री क्षीरिकाभेदे
“नारिकेलं तनू-कृत्य च्छिन्नं पयसि गोः क्षिपेत्। सितागव्याज्यसंयुक्तंतत् पचेन्मृदुनाग्निना। नारिकेलोद्भवा क्षीरी स्निग्धाशीतातिपुष्टिदा। गुर्वी सुमधुरा वृष्या रक्तपित्तानिला-पहा” भावप्र॰।
