नालम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नालम्, क्ली, (नलतीति । नल बन्धे + “ज्वलिति- कसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।) उत्पलादिदण्डः । तत्पर्य्यायः । नाला २ । इत्यमरः । २ । ९ । २२ ॥ नाली ३ नालिका ४ । इति भरतः ॥ (यथा, रघुः । ६ । १३ । “कश्चित् कराभ्यामुपगूढनाल- मालोलपत्राभिहतद्बिरेफम् । रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ॥” अर्द्धर्च्चादित्वात् पुंलिङ्गोऽपि ॥) हरितालम् । इति स्वामी ॥ नले, पुं । इति राजनिर्घण्टः ॥
