सामग्री पर जाएँ

नासीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नासीरम्, क्ली, (नास् शब्दे + भावे क्विप् । नासा शब्देन ईर्त्ते गच्छतीति । ईर गतौ + कः । जयशब्दाद्युच्चारणेन गमनादेवास्य तथात्वम् ।) नायकस्याग्रेसारिका सेना । (यथा, श्रीकण्ठ- चरिते । २१ । ४४ । “नासीरपार्षदभटेषु ततः प्रतोलीं लोलीकृतासिषु हठादधिरूढवत्सु । वामभ्रुवः पुरपुरेष्वभवन्नकाण्डे मग्ना भियेव निजवाष्पजलह्रदेषु ॥” तथा च, राजेन्द्रकर्णपूरे । ३९ । “नासीरप्रसरन्ति दिक्परिसरे भूमण्डले मौक्तिक- प्रस्तारन्ति सुधाकरन्ति गगनोत्सङ्गे भवत्- कीर्त्तयः ॥”) अग्रसरे, पुं । इति शब्दरत्नावली ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नासीर¦ न॰ नासाय शब्दाय ईर्त्ते ईर--क।

१ अग्रेसरसैन्येत्रिका॰

२ अग्रेसरमात्रे त्रि॰ शब्दर॰
“नलस्य नासीरगते वितेनतुः” नैष॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नासीर¦ n. (-रं) Advancing or skirmishing in front of an army, leaving the line, and defying the enemy by shouts and gestures. m. (-रः) The van, or a champion who advances before the line. E. णास् to sound, affix ईरन्; or नासाय शब्दाय इर्त्ते इर-क |

"https://sa.wiktionary.org/w/index.php?title=नासीर&oldid=354378" इत्यस्माद् प्रतिप्राप्तम्