नासीरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नासीरम्, क्ली, (नास् शब्दे + भावे क्विप् । नासा शब्देन ईर्त्ते गच्छतीति । ईर गतौ + कः । जयशब्दाद्युच्चारणेन गमनादेवास्य तथात्वम् ।) नायकस्याग्रेसारिका सेना । (यथा, श्रीकण्ठ- चरिते । २१ । ४४ । “नासीरपार्षदभटेषु ततः प्रतोलीं लोलीकृतासिषु हठादधिरूढवत्सु । वामभ्रुवः पुरपुरेष्वभवन्नकाण्डे मग्ना भियेव निजवाष्पजलह्रदेषु ॥” तथा च, राजेन्द्रकर्णपूरे । ३९ । “नासीरप्रसरन्ति दिक्परिसरे भूमण्डले मौक्तिक- प्रस्तारन्ति सुधाकरन्ति गगनोत्सङ्गे भवत्- कीर्त्तयः ॥”) अग्रसरे, पुं । इति शब्दरत्नावली ॥
