नास्तिकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नास्तिकः, पुं, (नास्ति परलोक ईश्वरो वेति मति- र्यस्य । “अस्तिनास्तिदिष्टं मतिः ।” ४ । ४ । ६० । इति ठक् । यद्बा, नास्ति परलोको यज्ञादिफलं ईश्वरो वेत्यादिवाक्येन कायति शब्दायते इति । कै शब्दे + डः ।) पाषण्डः । ईश्वरनास्तित्व- वादी । वेदाप्रामाण्यवादी । (यथा, मनुः । २ । ११ । “योऽवमन्यत ते मूले हेतुशास्त्राश्रयाद्द्विजः । स साधुभिर्बहिष्कार्य्यो नास्तिको वेदनिन्दकः ॥” तथा च तत्रैव । ३ । १५० । “ये स्तेनपतितक्लीवा ये च नास्तिकवृत्तयः । तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥” तथाच तत्रैव । ८ । २२, ३०९ । “यद्राष्टं शूद्रभूयिष्टं नास्तिकाक्रान्तमद्बिजम् । विनश्यत्याशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥” “अनपेक्षितमर्य्यादं नास्तिकं विप्रलुम्पकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥”) तत्पर्य्यायः । बार्हस्पत्यः २ चार्व्वाकः ३ लौकाय- तिकः ४ । इति हेमचन्द्रः । ३ । ५२६ ॥ स च षड्विधः । माध्यमिकः १ योगाचारः २ सौत्रा- न्तिकः ३ वैभाषिकः ४ चार्व्वाकः ५ दिग- म्बरः ६ ॥
