निःश्रेणिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निःश्रेणिः, स्त्री, (निर्निश्चिता श्रेणिः सोपान- पङ्क्तिः यत्र ।) अधिरोहिणी । (यथा, रघुः । १५ । १०० । “चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ॥”) खर्ज्जुरीवृक्षः । इति मेदिनी । णे, ५७ ॥ (पुं, घोटकविशेषः । यथा, नकुलकृताश्वचिकित्- सिते ४ अध्याये । “उपर्य्युपरि यस्य स्युरावर्त्ता अलिके त्रयः । निःश्रेणिः स तु विज्ञेयो राष्ट्रवृद्धिकरः परः ॥”)
