सामग्री पर जाएँ

निःसङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निःसङ्गः, त्रि, (निर्नास्ति सङ्गो यत्र ।) मेलन- रहितः । यथा, विष्णुपुराणे । ४ । २ । ५१ । “मत्स्यस्य सङ्गादभवच्च यो मे सुतादिरोगो मुषितोऽस्मि तेन । निःसङ्गता मुक्तिपदं यतीनां सङ्गादशेषाः प्रभवन्ति दोषाः ॥” फलानभिनिवेशवान् । यथा, -- “वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कम्यसिद्धिं लभते रोचनार्था फलश्रुतिः ॥” इति मलमासतत्त्वे श्रीभागवतैकादशस्कन्धवच- नम् ॥

"https://sa.wiktionary.org/w/index.php?title=निःसङ्गः&oldid=144195" इत्यस्माद् प्रतिप्राप्तम्