निःस्नेहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निःस्नेहः, त्रि, (निर्नास्ति स्नेहो यस्य ।) स्नेह- शून्यः । यथा । निःस्नेहं कीटदूषितमित्यादि स्मृतिः ॥ (यथा, रामायणे । २ । ४९ । ७ । “अहो दशरथो राजा निःस्नेहः स्वसुतं प्रति ॥” रसहीनः । यथा, मनुः । ५ । ८७ । “नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥” तैलविहीनः । यथा, पञ्चतन्त्रे । १ । ९४ । “शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥”)
