सामग्री पर जाएँ

निकटम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निकटम्, त्रि, (नि समीपे कटतीति । नि + कट + अच् ।) अदूरम् । तत्पर्य्यायः । समीपम् २ आसन्नम् ३ सन्निकृष्टम् ४ सनीडम् ५ । इत्य- मरः । ३ । १ । ६६ ॥ अभ्यासः ६ सवेशः ७ अन्तः ८ अन्तिकः ९ समर्य्यादः १० सदेशः ११ अभ्यस्रः १२ अभ्यर्णः १३ सविधा १४ उप- कण्ठः १५ अभितः १६ । इति शब्दरत्नावली ॥ (यथा, शान्तिशतके । ३ । २ । “दिवसरजनीकूलच्छेदैः पतद्भिरनारतं वहति निकटे कालः स्रोतःसमस्तभयावहम् । इह हि पततां नास्त्यालम्बो न चापि निवर्त्तनं तदिह महतां कोयं मोहो यदेष मदाविलः ॥” तद्वैदिकपर्य्यायः । तलित् १ आसात् २ अम्ब- रम् ३ ओर्व्वसे ४ अस्तमीके ५ आके ६ उपाके ७ अर्व्वाके ८ अन्तमानाम् ९ अवमे १० उपमे ११ । इत्येकादशान्तिकनामानि । इति वेदनिघण्टौ २ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निकटम्/ नि-कटम् ind. 107816

"https://sa.wiktionary.org/w/index.php?title=निकटम्&oldid=355759" इत्यस्माद् प्रतिप्राप्तम्