सामग्री पर जाएँ

निकोचकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निकोचकः, पुं, (निकोचति शब्दायते । नि + कुच शब्दे + वुन् ।) अङ्कोठवृक्षः । इत्यमरः । २ । ४ । २९ ॥ (यथा, सुश्रुते । १ । ४६ । “वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरु- माणप्रभृतीनि ॥” क्वचित् क्लीवलिङ्गेऽपि दृश्यते । यथा, -- “बातामाक्षोडाभिषुकं मुकूलकनिकोचकम् । उरुमाणं प्रियालञ्च बृंहणं गुरुशीतलम् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=निकोचकः&oldid=144268" इत्यस्माद् प्रतिप्राप्तम्