निकोठक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निकोठकः, पुं, (निकोचकः + पृषोदरादित्वात् चस्य ठः ।) निकोचकः । इत्यमरटीकायां भरतः ॥ (यथा, -- “तिलः पियालाभिषुकौ विभीतका- श्चित्राभयैरण्डमधूकसर्षपाः । कुसुम्भविल्वारुकमूलकातसी- निकोठकाक्षोडकरञ्जशिग्रुजाः ॥ स्नेहाशयास्थावरसंज्ञितास्तथा- स्युर्ज्जङ्गमा मत्स्यमृगाः सपक्षिणः ॥” इति चरके सूत्रस्थाने त्रयोदशेऽध्याये ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निकोठक¦ पु॰ नि + कुठि--वुन् पृषो॰ नलोपः। अङ्कोठवृक्षेभरतः।