सामग्री पर जाएँ

निगूढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निगूढः, पुं, (निगुह्यते संव्रियते इति । नि + गुह + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति । नेट् ।) वनमुद्गः । इति हेमचन्द्रः । ४ । २३९ ॥ गुप्ते, त्रि । यथा, -- “आस्ते विधुः परमनिर्वृत एव मौलौ शम्भोरिति त्रिजगतीजनचित्तवृत्तिः । अन्तर्न्निगूढनयनानलदाहदुःखं जानानि कः स्वयमृते वत शीतरश्मेः ॥” इत्युद्भटः ॥

"https://sa.wiktionary.org/w/index.php?title=निगूढः&oldid=144305" इत्यस्माद् प्रतिप्राप्तम्