सामग्री पर जाएँ

निग्रहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निग्रहः, पुं, (नियमेन ग्रहणमिति । नि + ग्रह + “ग्रहवृद्रिति ।” ३ । ३ । ५८ । इति अप् ।) अनुग्रहाभावः । इत्यमरः । ३ । २ । ३१ ॥ (यथा, मनुः । ७ । १७५ । “निग्रहं प्रकृतीनाञ्च कुर्य्याद् योऽरिबलस्य च । उपसेवेत तं नित्यं सर्व्वयत्नैर्गुरुं यथा ॥”) बन्धनम् । (यथा, महाभारते । १ । १ । १७४ । “यदाश्रौषं कर्णदुर्य्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ॥”) भर्त्सनम् । सीमा । इति मेदिनीकरहेमचन्द्रौ ॥ (निराकरणम् । यथा, रघुः । ९ । २५ । “दिनमुखानि रविर्हिमनिग्रहै- र्व्विमलयन् मलयन्नगमत्यजत् ॥” दण्डः । यथा, रघुः । ११ । ५५ । “ते चतुर्थसहितास्त्रयो बभुः सूनवो नवबधपरिग्रहात् । सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥”) चिकित्सा । इति राजनिर्घण्टः ॥ विष्णुः । यथा, महाभारते । १३ । १४९ । ९४ । “प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥” (“सर्व्वं प्रलये निगृह्णातीति निग्रहः ।” इति शाङ्करभाष्यम् ॥ महादेवः । इति महाभार- तम् । १३ । १७ । ६४ ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निग्रहः [nigrahḥ], 1 Keeping in check, restraint, curbing, subjection; as in इन्द्रियनिग्रह Ms.6.92; Y.1.222; Bh.1.66; चञ्चलं मनः...... तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् Bg.6.34; तस्य ता वपुषाक्षिप्ता निग्रहार्थं जजृम्भिरे Bu. Ch.4.6.

Suppression, obstruction, putting down; तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् Ms.6.71.

Overtaking, capturing, arresting; त्वन्निग्रहे तु वरगात्रि न मे प्रयत्नः Mk.1. 22; Śi.2.88.

Confinement, imprisonment.

Defeat, overthrow, vanquishing.

Dispelling, destruction, removing; दिनमुखानि रविर्हिमनिग्रहैर्विमलयन् मलयं नगम- त्यजत् R.9.25;15.6; Ku.5.53.

Arresting of disease, cure.

Punishment (opp. अनुग्रह) निग्राहानु- ग्रहस्य कर्ता Pt.1; निग्रहो$प्ययमनुग्रहीकृतः R.11.9,55;12. 52,63.

Rebuke, reprimand, blame.

Aversion, dislike, disgust.

(In Nyāya phil.) A flaw in an argument, a fault in a syllogism (by which a disputant is put down in argument); cf. Mu.5.1.

A handle.

A limit, boundary.

The Supreme Being.

Transgressing (अतिलङ्घन); निग्रहाद्धर्मशास्त्राणा- मनुरुद्ध्यन्नपेतभीः Mb.12.24.13. -Comp. -स्थानम् the reason of defeat, unfitness to be argued with, one of the 16 categories of the Naiyāyikas; एवमपि प्रकृतं दूषयितुमशक्नु- वतस्तत्सिद्धान्तान्तरदूषणे निग्रहस्थानमापद्यते । ŚB. on MS.1.1.5.

"https://sa.wiktionary.org/w/index.php?title=निग्रहः&oldid=357259" इत्यस्माद् प्रतिप्राप्तम्