सामग्री पर जाएँ

निघण्टु:

विकिशब्दकोशः तः

निर्वचनम्- निगमा: इमे भवन्ति। -यास्क:
विवरणम्- नि-गम् निश्चयकरणे।वेदार्थस्य निश्चयं कर्तुं निघण्टु: रचित:।

निर्वचनम्- आहननात्।समाहता: भवन्ति।-यास्क:
विवरणम् -समाहननम् एकत्रीकरणम्।अत्र शब्दानाम् एकत्रीकरणं विद्यते।

निर्वचनम् - समाहृता: भवन्ति।-यास्क:
विवरणम्- समाहृता: चिता:।अत्रत्या: शब्दा: भिन्नभिन्नशाखाभ्य: चिता: ।

"https://sa.wiktionary.org/w/index.php?title=निघण्टु:&oldid=29038" इत्यस्माद् प्रतिप्राप्तम्