निघ्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निघ्नः, त्रि, (निहन्यते निगृह्यते इति । नि + हन + घञर्थे कः । नियम्यत्वादेवास्य तथात्वम् ।) अधीनः । इत्यमरः । ३ । १ । १६ ॥ (यथा, रघुवंशे । १४ । ५८ । “आश्वास्य रामावरजः सतीं ता- माख्यातवाल्मीकिनिकेतमार्गः । निघ्नस्य मे भर्त्तृनिदेशरौक्ष्यं देवि ! क्षमस्वेति बभूव नम्रः ॥”) अङ्कपूरणम् । इति लीलावती ॥ (यथा, सूर्य्य- सिद्धान्ते । ३ । २९ । “पुनर्द्बादशनिघ्नाच्च लभ्यते यत् फलं बुधैः ॥” पुं । सूर्य्यवंशीयनृपभेदः । यथा, हरिवंशे १५ । २२ । “अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः ॥”)
