सामग्री पर जाएँ

निचितम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निचितम्, त्रि, (निचीयते स्मेति । नि + चि + क्त ।) पूरितम् । व्याप्तम् । इति हेमचन्द्रः । ६ । १०९ ॥ (यथा, महाभारते । ३ । १२९ । ४ । “पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ॥” सञ्चितम् । यथा, भावप्रकाशे अतिसाराधिकारे । “वायुः प्रवृद्धो निचितं बनाशं नुदत्यधस्तादहिताशनस्य ॥” नदीभेदे, स्त्री । यथा, महाभारते । ६ । ९ । १८ । “कौशिकीं त्रिदिवां कृत्यां निचितां रोहिता- रणीम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=निचितम्&oldid=144329" इत्यस्माद् प्रतिप्राप्तम्