नितम्बः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नितम्बः, पुं, (निभृतं तम्यते आकाङ्क्ष्यते कामुकै- रिति । तमु आकाङ्क्षायाम् + उल्वादयश्चेति साधुः । यद्बा, नितम्बति पीडयति नायक- चित्तमिति । नि + तम्ब हिंसायाम् + अच् ।) स्त्रीकट्याः पश्चाद्भागः । इत्यमरः । २ । ६ । ७४ ॥ पाछा इति भाषा ॥ (यथा, माघे । ११ । ५ । “विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छन् जीवितेशोऽवकाशम् ॥”) स्कन्धः । रोधः । कटकः । (यथा, भट्टीकाव्ये । २ । ८ । “गिरेर्नितम्ब मरुता विभिन्नं तोयावशेषेण हिमाभमम्रम् ॥”) कटिमात्रम् । इति मेदिनी । बे, १२ ॥ (यथा, विदग्धमुखमण्डने । “तरुण्यालिङ्गितः कण्ठे नितम्बस्थानमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नितम्बः [nitambḥ], [निभृतं तम्यते कामुकैः, तमु काङ्क्षायाम्]
The buttocks, posteriors (of a woman), (the circumference of the hip and loins); यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासा- दिव Ś.2.2; R.4.52;6.17; Me.43; Bh.1.5; M.2.7.
The slope, ridge, side, flank of a mountain; सनाक- वनितं नितम्बरुचिरम् (गिरिम्) Ki.5.27; सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् Bh.1.19; V.4.26; Bk. 2.8;7.58.
A precipice.
The sloping bank of a river; Mb.1.12.12.
The shoulder.
The sounding-board of the Vīṇā. -Comp. -बिम्बम् round or circular hips; Ṛs.1.4. -स्थलम्, स्थली The region of the hips.
