सामग्री पर जाएँ

नितम्बिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नितम्बिनी, स्त्री, (अतिशयितो नितम्बोऽस्त्यस्या इति । नितम्ब + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः स्त्रियां ङीप् ।) प्रशस्तनितम्ब- विशिष्टा । इत्यमरः । २ । ६ । ३ ॥ (यथा, आर्य्या- सप्तशत्याम् । ५५४ । “वैगुण्येऽपि महता विनिर्म्मितं भवति कर्म्म शोभायै । दुर्वहनितम्बमन्थरमपि हरति नितम्बिनी- नृत्यम् ॥”) स्त्रीमात्रम् । इति राजनिर्घण्टः ॥ (यथा, कुमारसम्भवे । ३ । ७ । “नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयं ग्राहनिषिक्तबाहुम् ॥” नितम्बविशिष्टे, त्रि । यथा, रघुः । १९ । २६ । “लोभ्यमाननयनः श्लथांशुकै- र्मेखलागुणपदैर्नितम्बिभिः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नितम्बिनी स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।2।5

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नितम्बिनी¦ f. (-नी) A woman with large and handsome posteriors. E. नितम्ब as above, इनि and ङीप् affs.

"https://sa.wiktionary.org/w/index.php?title=नितम्बिनी&oldid=358079" इत्यस्माद् प्रतिप्राप्तम्