नित्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नित्यः, त्रि, (नियमेन भवः । नि + “अव्ययात् त्यप् ।” ४ । २ । १०४ । इत्यत्र “त्यप् नेर्घ्रुव इति वक्तव्यम् ।” इति वार्त्तिकोक्त्या त्यप् ।) काल- त्रयव्यापी । तत्पर्य्यायः । शाश्वतः २ ध्रुवः ३ सदातनः ४ सनातनः ५ । इत्यमरः । ३ । १ । ७२ ॥ (यथा, महाभारते । १ । १०० । २ । “दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । नित्यान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभे ॥”) समुद्रे, पुं । इति राजनिर्घण्टः ॥
