नित्यकर्म्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नित्यकर्म्म, [न्] क्ली, (नित्यं कर्म्म ।) प्रत्यवाय- जनकाभावप्रतियोगिकार्य्यम् । इति स्मृतिः ॥ तद्यथा, -- “नित्यं नैमित्तिकञ्चैव नित्यनैमित्तिकन्तथा । गृहस्थस्य त्रिधा कर्म्म तन्निशामय पुत्त्रक ! ॥ पञ्चयज्ञाश्रितं नित्यं यदेतत् कथितं तव । नैमित्तिकं तथा चान्यत् पुत्त्रजन्मक्रियादिकम् ॥ नित्यनैमित्तिकं ज्ञेयं पर्व्वश्राद्धादि पण्डितैः ॥” इति मार्कण्डेयपुराणम् ॥ * ॥ तत्त्यागे दोषो यथा, -- “नित्यानां कर्म्मणां विप्र ! तस्य हानिरहर्निशम् । अकुर्व्वन् विहितं कर्म्म शक्तः पतति तद्दिने ॥ प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि । पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय ! मानवः ॥ संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते । तस्यावलोकनात् सूर्य्यो निरीक्ष्यः साधुभिः सदा ॥ स्पृष्टे स्नानं सचेलस्य शुद्धिहेतुर्म्महामुने ! । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्म्मणः ॥” इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥ * ॥ क्षतादौ नित्यकर्म्मकरणनिषेधो यथा, -- “जानूर्द्ध्वे क्षतजे जाते नित्यकर्म्म न चाचरेत् । नैमित्तिकञ्च तदधःस्रवद्रक्तो न चाचरेत् ॥ सूतके च समुत्पन्ने क्षुरकर्म्मणि मैथुने । घूमोद्गारे तथा वान्तौ नित्यकर्म्माणि संत्यजेत् ॥ द्रव्ये भुक्ते त्वजीर्णे च नैव भुक्त्वा च किञ्चन । कर्म्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा ॥ पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम् । कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा न चाचरेत् ॥ जलस्यापि नरश्रेष्ठ ! भोजनाद्भेषजादृते । नित्यक्रिया निवर्त्तेत सह नैमित्तिकैः सदा ॥ जलौकां गूढपादञ्च कृमिगण्डूपदादिकम् । कामाद्दम्भेन संस्पृश्य नित्यकर्म्माणि संत्यजेत् ॥ विशेषतः शिवापूजां प्रमीतपितृकी द्विजः । यावद्वत्सरवपर्य्यन्तं मनसापि न चाचरेत् ॥ महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् । आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् ॥ गुरुमाक्षिप्य विप्रञ्च प्रकृत्यैव च पाणिना । न कुर्य्यान्नित्यकर्म्माणि रेतःपाते च भैरव ! ॥” इति कालिकापुराणे ५४ अध्यायः ॥
