नित्यक्षौरम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नित्यक्षौरम्, क्ली, (नित्यं कालाकालाभावतो राग- प्राप्तत्वात् सदातनं क्षौरम् ।) वैधेतरक्षौरम् । रागप्राप्तकेशच्छेदनम् । यथा, -- “चूडोदिते तिथावृक्षे बुधेन्द्वोर्द्दिवसे नरः । नित्यक्षौरं प्रकुर्व्वीत जन्ममासे न तु क्वचित् ॥” इति ज्योतिःसागरसारः ॥ * ॥ राजमार्त्तण्डे तु । “न स्नानमात्रगमनोत्सुकभूषिताना- मभ्यक्तभुक्तरणकालनिवासनानाम् । सन्ध्या निशाशनिकुजार्कदिनेषु रिक्ते क्षौरं हितं प्रतिपदह्नि न चापि विष्ट्याम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ तत्र मासाः सौराः भाद्रपौषचैत्रा निषिद्धाः जन्ममासोऽपि निषिद्धः तदितरे विहिताः । वारस्तु बुधसोमयोर्व्विहितः । सामगानां मङ्गल- वारोऽपि । तिथयस्तु नन्दारिक्तापूर्णिमामा- वास्याष्टमीभिन्ना विहिताः । नक्षत्राणि रेवत्य- श्विनी पुष्यः धनिष्ठा ज्येष्ठा श्रवणा स्वाती हस्ता मृगशिरः शतभिषा पुनर्व्वसुः चित्रा । राजा- देशे द्विजादेशे विवाहे मृतसूतकाशौचे बन्ध- मोक्षे यज्ञकर्म्मणि परीक्षायां निसिद्धमासादि- ष्वपि कार्य्यम् । अशक्तश्चेन्निषिद्धेऽपि दिने । “केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहीच्छ- त्राम् । दितिमदितिञ्च स्मरतां क्षौरविधौ भवति कल्याणम् ॥” इत्युच्चार्य्य कार्य्यम् । इति ज्योतिषम् ॥
