सामग्री पर जाएँ

नित्यप्रलय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नित्यप्रलयः, पुं, (नित्यः प्रलयः ।) चतुर्व्विध- प्रलयान्तर्गतप्रलयविशेषः । यथा, -- “नित्यः सदैव जातानां यो विनाशो दिवानिशम् ॥” इति विष्णुपुराणे १ अंशे ७ अध्यायः ॥ “सदैव दीपज्वालावत् सातत्येन जातानां दिवा- निशं यो विनाशः स नित्यः ॥” इति तट्टीकायां स्वामी ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नित्यप्रलय¦ पु॰ नित्यः प्रात्यहिकः प्रलयः। सुषुप्तौ
“चतु-र्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः। सदा विनाशोजातानाम्” अग्निपु॰

३६

७ अ॰ स च प्रलयचातुर्विध्यमुक्त्वावेदान्तपरिभाषायां विवृतो यथा
“स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिक-श्चेति। तत्र नित्यप्रलयः सुषुप्तिः तस्याः सकलकार्य्य-प्रलयरूपत्वाद् धर्माघर्मपूर्वसंस्काराणाञ्च तदा कारणा-त्मनावस्थानं, तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिःन वा स्मरणानुपपत्तिः। न च सुषुप्तावन्तःकरणस्यापिविनाशे तदधीनप्राणनादि क्रियानुपपत्तिः, वस्तुतः श्वासा-द्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्त-शरीरोपलम्भवत्। नचैवं सुषुप्तस्य परेतादविशेषः सुषु-प्तस्य हि लिङ्गशरीरं संस्कारात्मना तत्रैव वर्त्तते परेतस्यतु लोकान्तरे इति वैलक्षण्यात्। यद्वा अन्तःकरणस्य द्वेशक्तो ज्ञानशक्तिः क्रियाशक्तिश्चेति तत्र ज्ञानशक्तिविशि-ष्टन्तःकरणस्य सुषुप्तौ विनाशः न तु क्रियाशक्तिविशिष्ट-स्येति प्राणनाद्यवस्थानमविरुद्धम्।
“यदा सुप्तः स्वप्नंन कञ्चन पश्यति अथास्मिन् प्राणएवैकधा भवति अथैनंवाक सर्वैर्नामभिः सहाप्येति सता सौम्य! तदा सम्पन्नोभवति स्वमपीतो भवतीत्यादि” श्रुतिरुक्तमुषुप्तौ मानम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नित्यप्रलय¦ m. (-यः)
1. Sleep.
2. The constant loss of living beings. E. नित्य and प्रलय destruction.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नित्यप्रलय/ नित्य--प्रलय m. the constant dissolution of living beings W.

"https://sa.wiktionary.org/w/index.php?title=नित्यप्रलय&oldid=358394" इत्यस्माद् प्रतिप्राप्तम्