निदर्शनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निदर्शनम्, क्ली, (निदृश्यतेऽनेनेति । नि + दृश् + ल्युट् ।) दृष्टान्तः । उदाहरणम् । यथा, -- “व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभे शास्त्रनिदर्शने ॥” इति नानार्थटीकायां भरतः ॥ (“दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शनम् ॥ यथाग्निर्वायुनासहितः कोष्ठे वृद्धिङ्गच्छति तथा वातपित्तकफदुष्टो व्रण इति ॥” इत्युत्तरतन्त्रे पञ्च- षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)
