निदर्शना
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निदर्शना, स्त्री, (निदर्शयतीति । नि + दृश् + णिच् + ल्युः । टाप् ।) काव्यालङ्कारविशेषः । तस्य लक्षणम् । “अर्थान्तरप्रवृत्तेन किञ्चित्तत्सदृशं फलम् । सदसत्त्वान्निदर्श्येत यदि सा स्यान्निदर्शना ॥” उदाहरणं यथा, दण्डी । “उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयितुमृद्धीनां फलं मुहृदनुग्रहम् ॥” (यथा च साहित्यदर्पणे । १० । ७० । “सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् । यत्र विम्बानुविम्बत्वं वोधयेत् सा निदर्शना ॥ अत्र सम्भवद्बस्तुसम्बन्धनिदर्शना । यथा, -- ‘कोऽत्र भूमिबलये जनान् मुधा तापयन् मुचिरमेति सम्पदम् । वेदयन्निति दिनेन भानुभा- नाममाद चरमाचलं ततः ॥’ अत्र रवेरीदृशार्थवेदनक्रियायां कर्त्तृत्वेनान्वयः सम्भतत्येव देदृशायंजाओअबसनर्त्गरमाचसप्राप्ति- रूपधर्म्मवत्त्वात् । स च रवेरस्ताचलगमनस्य परतापिनां विपत्प्राप्तेश्च विम्बप्रतिविम्बभावं बोधयति । असम्भवद्वस्तुसम्बन्धनिदर्शना त्वेक- वाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगा यथा, -- ‘कलयति कुवलयमाला- ललितं कुटिलः कटाक्षविज्ञेपः । अधरः किसलयलीला- माननमस्याः कलानिधेर्व्विलासम् ॥’ अत्रान्यस्य धर्म्मं कथमन्यो वहत्विति कटाक्ष- विक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवत् तल्ललितादिसदृशं ललितादिक- मवगमयत् कटाक्षविक्षेपादेः कुवलयमालादेश्च विम्बप्रतिविम्बभावं बोधयति । यथा वा । ‘प्रयाणे तव राजेन्द्र ! मुक्ता वैरीमृगीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः ॥’
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निदर्शना/ नि- f. a partic. form of a simile or comparison( e.g. Ragh. i , 2 ) Kpr. Sa1h. etc.
