निदाघः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघः, पुं, (नितरां दह्यतेऽत्र अनेन वा । नि + दह + घञ् । न्यङ्क्वादित्वात् कुत्वम् ।) ग्रीष्म- कालः । (यथा, रघुः । १० । ८३ । “ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥”) उष्णः । घर्म्मः । इत्यमरमेदिनीकरौ ॥ (यथा, रघुः । १२ । ३२ । “रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥”) निदाघे वर्णनीयानि यथा । पाटलपुष्पम् १ ग्नल्लिकापुष्पम् २ तापः ३ सरः ४ पथिकशोषः ५ वायुः ६ सेकः ७ शक्तुः ८ प्रपा ९ स्त्री १० मृग- तृष्णा ११ आम्रादिफलपाकः १२ । इति कवि- कल्पलता ॥ (“ता एवौषधयो निदाघे निःसारा रुक्षा अति- मात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्या- ल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापादयन्ति स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वाति- कान् व्यार्धान् जनयति ॥” इति सुश्रुते सूत्र- स्थाने षष्ठेऽध्याये ॥ “निदाघोपचितञ्चैव प्रकुप्यन्तं समीरणम् । निहन्यादनिलघ्नेन विधिना विधिकोविदः । नदीजलं रुक्षमुष्णमुदमन्थं तथातपम् ॥ व्यायामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत् ॥” इति चोत्तरतन्त्रे चतुःषष्टितमेऽध्याये सुश्रुते नोक्तम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघः [nidāghḥ], [नि-दह् आधारे घञ् न्यङ्क्वादि कुत्वम्]

Heat, warmth; आर्द्राङ्गुलीदलमनङ्गनिदाघतप्तः

The hot season, summer (the months of ज्येष्ठ and आषाढ); निदाघमिहिर- ज्वालाशतैः Bv.1.16; निदाघकालः समुपागतः प्रिये Ṛs.1.1; Pt.1.14; Ku.7.84.

Sweat, perspiration. प्रस्नापया- मास मुखं निदाघः Ki.17.8.

The internal heat; स्त्रियो निदाघं शमयन्ति कामिनाम् Ṛs.1.4.

The water of perspiration. -Comp. -करः the sun. -कालः summer. -धामन् the sun; निदाघधामानमिवाधिदीधितम् Śi.1.24. -वार्षिक a. (months) belonging to the hot and rainy season; निदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा Mb.7.3.1. -सिन्धुः a river in hot season (nearly dry).

"https://sa.wiktionary.org/w/index.php?title=निदाघः&oldid=358873" इत्यस्माद् प्रतिप्राप्तम्