निदाघकालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निदाघकालः, पुं, (निदाघ एव कालः । निदा- घस्य कालो वा ।) ग्रीष्मर्त्तुः । स तु ज्यैष्ठा- षाढमासौ । यथा, -- “प्रचण्डसूर्य्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालः समुपागतः प्रिये ! ॥” इति ऋतुसंहारे । १ । १ ॥
