सामग्री पर जाएँ

निधनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निधनम्, क्ली, (नि + धा + “कॄपॄवृजिमन्दिनि धाञः क्युः ।” उणां । २ । ८१ । इति क्युः ।) नाशः । तत् तु अदर्शनं मरणञ्च । (यथा, विष्णु- पुराणे । १ । १३ । ७३ । “एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ! । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥”) कुलम् । तत्तु कुलस्थानं कुलमुख्यश्च । इत्यमर- भरतौ ॥

निधनम्, पुं क्ली, (नि + धा + क्युः ।) मरणम् । इत्यमरः । २ । ८ । १६ ॥ वधतारा । सा तु जन्मनक्षत्रत्वात् सप्तमी तारा । यथा, जन्म सम्पद्विपत् क्षेमः प्रत्यरिः साधको वष इत्यादि । प्रत्यरौ लवणं दद्यान्निधने तिलकाञ्चनम् । इति ज्योतिस्तत्त्वस् ॥ (निवृत्तं धनं यस्य ।) धन- हीने, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=निधनम्&oldid=144416" इत्यस्माद् प्रतिप्राप्तम्