निन्दास्तुतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निन्दास्तुतिः, स्त्री, (निन्दया स्तुतिः ।) व्याज- स्तुतिः । यथा, -- “निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति- निन्दयोः ।” निन्दया स्तुतिर्गम्यत्वे व्याजेन स्तुतिरिति च व्युत्पत्त्या व्याजस्तुतिः । इति साहित्यदर्पणः । अपि च । “यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ मता ।” उदाहरणम् । “तापसेनापि रामेण जितेयं भूतधारिणी । त्वया राज्ञापि सैवेयं जिता माभून्मदस्तव ॥” इति दण्डी ॥ “कथमवनिप ! दर्पो यन्निशातासिधारा- दलनगलितमूर्द्ध्नां विद्बिषां स्वीकृता श्रीः । ननु तव निहतारेरप्यसौ किन्न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्त्तिरेभिः ॥ इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य ।” इति काव्यप्रकाशः ॥
