सामग्री पर जाएँ

निमिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निमिः, पुं, इक्ष्वाकुराजपुत्त्रः । तस्य निमेषे स्थिति- कारणं यथा, -- “निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत । तत्रान्तरेऽभ्याजगाम वशिष्ठो ब्रह्मसम्भवः ॥ तस्य पूजामकुर्व्वन्तं शशाप स मुनिर्नृपम् । विरेतास्त्वं भवस्वेति शप्तस्तेनाप्यसौ पुनः ॥ अन्योन्यशापाच्च तयोर्विशरीरे विचेतसी । जग्मतुः शापनाशाय ब्रह्माणं जगतः पतिम् ॥ अथ ब्रह्मण आदेशाल्लोचनेषु वसन्निमिः । निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद ॥” इति मत्स्यपुराणे ५५ अध्यायः ॥ * ॥ मतान्तरं यथा, -- “निमिः सहस्रसंवत्सरं सत्रमारेभे । वशिष्ठञ्च होतारं वरयामास । तमाह वशिष्ठः । अह- मिन्द्रेण पञ्चवर्षशतं यागार्थं प्रथमतरं वृतः । आगतस्तवापि ऋत्विग् भविष्यामीत्युक्ते सोऽपि तत्कालमेवान्यैर्गोतमादिभिर्यागमकरोत् । समाप्ते चामरपतियागे त्वरावान् वशिष्ठ आजगाम । तत्कर्म्मकर्त्तृत्वं गोतमस्य दृष्ट्वा अयं विदेहो भविष्यतीति शापं ददौ । निमेः शरीरं सद्यो मृतमिव तस्थौ । यज्ञसमाप्तौ भागग्रहणाया- गतान् देवान् ऋत्विज ऊचुः । यजमानाय वरो दीयतामिति । देवैश्च छन्दितो निमिराह । नह्येतावति जगत्यन्यद्दुःखमस्ति यच्छरीरात्मनो- र्वियोगे भवति । तदहमिच्छामि सकललोचनेषु वस्तुम् । न पुनः शरीरग्रहणं कर्त्तुमित्येवमुक्ते देवैरसावशेषभूतानां नेत्रेष्वासां कारितः । ततो भूतान्युन्मेषनिमेषं चक्रुः ।” इति विष्णुपुराणे ४ अंशे ५ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निमिः [nimiḥ], 1 Winking, twinkling (of the eyes).

N. of one of the descendants of Ikṣvāku, and ancestor of the line of kings who ruled in Mithilā.

"https://sa.wiktionary.org/w/index.php?title=निमिः&oldid=360922" इत्यस्माद् प्रतिप्राप्तम्