सामग्री पर जाएँ

निमेषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निमेषः, पुं, (नि + मिष + भावे घञ् ।) पक्ष्म- स्पन्दनकालः । पलक् इति भाषा ॥ तत्पर्य्यायः । निमिषः २ दृष्टिनिमीनलम् ३ । इति शब्द- रत्नावली ॥ पुंसो यावत्कालमकृत्रिमनेत्र- विकाशानन्तरं पक्ष्माकुञ्चनं जायते स निमेषः । इत्यमरटीकायां भरतः ॥ * ॥ “अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्त्तितः । द्बौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥’ इत्यग्निपुराणम् ॥ (पक्ष्मस्पन्दनम् । यथा, रघुः । २ । १९ । “पपौ निमेषालसपक्ष्मपङ्क्ति- रुपोषिताभ्यामिव लोचनाभ्याम् ॥” रोगविशेषः । यथा, सुश्रुते चिकित्सितस्थाने । ३९ अध्याये । “नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् । लभते दन्तचालञ्च तांस्तांश्चान्यानुपद्रवान् ॥” स्वनामख्यातयक्षविशेषः । इति नीलकण्ठः ॥ यथा, महाभारते । १ । ३२ । १९ । “उलूकश्वसनाभ्याञ्च निमेषेण च पक्षिराट् । प्ररुजेन च संग्रामं चकार पुलिनेन च ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निमेषः [nimēṣḥ], Twinkling of the eye, a moment &c.; see निमिष; हरति निमेषात् कालः सर्वम् Moha M.4.; अनिमेषेण चक्षुषा 'with a steadfast or fixed look'; R.2.19;3.43,61; Bri. Up.3.8.9. -Comp. -अन्तरम् the interval of a moment. ˚चारिन् going in a moment anywhere; प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः Mb.5.192.51. -कृत् f. lightning. -द्युत्, -रुच् m. a fire-fly.

"https://sa.wiktionary.org/w/index.php?title=निमेषः&oldid=361334" इत्यस्माद् प्रतिप्राप्तम्