सामग्री पर जाएँ

निम्नम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निम्नम्, त्रि, निकृष्टा म्ना अभ्यासः शीलमत्र । (यद्वा, निकृष्टं म्नातीति । म्ना + कः ।) नीचम् । निचु इति नावाल इति च भाषा ॥ तत्पर्य्यायः । गभीरम् २ गम्भीरम् ३ । इत्यमरः । १ । १० । १५ ॥ गभीरकम् ४ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ५ । “क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥” पुं, अनमित्रपुत्त्रः । स तु सत्राजितप्रसेनयोः पिता । यथा, भागवते । ९ । २४ । १२ । “शिनिस्तस्यानमित्रश्च निम्नोऽभूदनमित्रतः । सत्राजितः प्रसेनश्च निम्नस्याथासतुः सुतौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=निम्नम्&oldid=144517" इत्यस्माद् प्रतिप्राप्तम्