निम्बः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निम्बः, पुं, (निम्बति स्वास्थ्यं ददातीति । निम्ब + अच् ।) वृक्षविशेषः । निम् इति भाषा । तत्- पर्य्यायः । अरिष्टः २ सर्व्वतोभद्रः ३ हिङ्गु- निर्य्यासः ४ मालकः ५ पिचुमर्द्दः ६ । इत्य- मरः । २ । ४ । ६२ ॥ अर्कपादपः ७ । इति हेमचन्द्रः ॥ कैटर्य्यः ८ वरत्वचः ९ छर्द्दिघ्नः १० । इति रत्न- माला ॥ प्रभद्रः ११ पारिभद्रकः १२ काक- फलः १३ कीरेष्टः १४ नेता १५ सुमनाः १६ विशीर्णपर्णः १७ यवनेष्टः १८ पीतसारकः १९ शीतः २० । इति राजनिर्घण्टः ॥ पिचुमन्दः २१ तिक्तकः २२ । इति भावप्रकाशः ॥ कोकटः २३ शूकमालकः २४ । इति जटाधरः ॥ अस्य गुणाः । शीतत्वम् । तिक्तत्वम् । कफव्रणक्रिमि- वमिशोफशान्तिकारित्वम् । बलासबहुविधपित्त- दोषहृदयविदाहनाशित्वञ्च । इति राज- निर्घण्टः ॥ लघुत्वम् । भ्राहित्वम् । कटुपाकि- त्वम् । अग्निवातकारित्वम् । अहृद्यत्वम् । भ्रम- तृट्कासज्वरारुचिच्छर्द्दिकुष्ठहृल्लासमेहनाशि- त्वञ्च । तत्पत्रगुणाः । नेत्रहितकारित्वम् । कृमिपित्तविषसर्व्वारोचककुष्ठनाशित्वम् । वात- लत्वम् । कटुपाकित्वञ्च । तत्फलगुणाः । रसे तिक्तत्वम् । पाके कटुत्वम् । भेदनत्वम् । स्निग्ध- त्वम् । लघुत्वम् । उष्णत्वम् । कुष्ठगुल्मार्शःकृमि- मेहनाशित्वञ्च । “निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत् । अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत् ॥ व्रणपित्तकफच्छर्द्दिकुष्ठहृल्लासमेहनुत् । निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत् ॥ वातलं कटुपाकञ्च सर्व्वारोचककुष्ठनुत् । नैम्बं फलं रसे तिक्तं पाके तु कटु भेदनम् ॥ स्निग्धं लघूष्णं कुष्टघ्नं गुल्मार्शःकृमिमेहनुत् ॥” इति भावप्रकाशः ॥ * ॥ तत्तैलगुणाः । नात्युष्णत्वम् । कृमिकुष्ठकफ- त्वग्दोषव्रणकण्डूतिशोफहारित्वम् । पित्तलत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “निम्बं पित्तकफच्छर्द्दिव्रणहृल्लासकुष्ठनुत् ।” निम्बपत्रं इति वा पाठः ॥ * ॥ “करञ्जनिम्बजफलं कृमिकुष्ठप्रमेहजित् । निम्बतैलन्तु कुष्ठघ्नं तिक्तं कृमिहरं परम् ॥” इति राजवल्लभः ॥ अथ महानिम्बः । वकाईन इति हिन्दीभाषा ॥ तत्पर्य्यायगुणाः । यथा, भावप्रकाशे । “महानिम्बः स्मृतो द्रेका रम्यको विषमुष्टिकः । केशमुष्टिर्निम्बरकः कामुकः क्षीर इत्यपि ॥ महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः । कफपित्तकृमिच्छर्द्दिकुष्ठहृल्लासरक्तजित् ॥ प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः ॥” (षष्ठ्यां तिथौ तद्भक्षणे तिर्य्यक्योनित्वं स्यात् । इति तिथितत्त्वम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निम्बः [nimbḥ], 1 A tree with bitter fruits; आम्रं छित्वा कुठारेण निम्बं परिचरेत्तु यः यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ Rām.
N. of a tree, Pāribhadra; निम्बस्तु पिचुमन्दे च पारिभद्र- तरावपि -Comp. -अर्कः, -आदित्यः N. of the founder of a Vaiṣṇava sect.
तरुः the Mandāra tree.
the Nimba tree. -पञ्चकम् The five products (leaf, flower, bark, fruit and root) of निम्ब.
